नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत्। प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन्
ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् । अन्वपद्यन्त विधिवद्यथा पाण्डुं जनाधिपम्
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च। चचार पृथिवीं पाण्डुः सर्वां परपुरञ्जयः
कोशसंवनने दाने भृत्यानां चान्ववेक्षणे । भरणे चैव सर्वस्य विदुरः सत्यसङ्गरः
सन्धिविग्रहसंयुक्तो राज्ञां संवाहनक्रियाः । अवैक्षत महातेजा भीष्मः परपुरञ्जयः
सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः । अन्वास्यमानः सततं विदुरेण महात्मना
कथं तस्य कुले जातः कुलभेदं व्यवस्यसि। संभूय भ्रातृभिः सार्धं भुङ्क्ष भोगाञ्जनाधिप
ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथञ्चन । भीष्मेण दत्तमिच्छामि न त्वया राजसत्तम
नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप । यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु
दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन । सममाचार्यकं तात तव तेषां च मे सदा
अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम । बहुना किं प्रलापेन यतो धर्मस्ततो जयः
एवमुक्ते महाराज द्रोणेनामिततेजसा। व्याजहार ततो वाक्यं विदुरः सत्यसङ्गरः । पितुर्वदनमन्वीक्ष्य परिवृत्त्य च धर्मवित्
देवव्रत निबोधेदं वचनं मम भाषतः। प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः
तन्मे विलपमानस्य वचनं समुपेक्षसे। कोयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः
यस्य लोभाभिभूतस्य मतिं समनुवर्तसे । अनार्यस्याकृतज्ञस्य लोभेन हृतचेतसः । अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः
एते नश्यन्ति कुरवो दुर्योधनकृतेन वै। यथा ते न प्रणश्येयुर्महाराज तथा कुरु
मां चैव धृतराष्ट्रं च पूर्वमेव महामते। चित्रकार इवालेख्यं कृत्वा स्थापितवानसि
प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा। नोपेक्षश्व महाबाहो पश्यमानः कुलक्षयम्
अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते । वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् । शाधीदं राज्यमद्याशु पाण्डवैरभिरक्षितम्
प्रसीद राजशार्दूल विनाशो दृश्यते महान् । पाण्डवानां कुरूणां च राज्ञाममिततेजसाम्
विररामैवमुक्त्वा तु विदुरो दीनमानसः । प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः
ततोऽस्य राज्ञः सुबलस्य पुत्री धर्मार्थयुक्तं कुलनाशमीता। दुर्योधनं पापमतिं नृशंसं राज्ञां समक्षं सुतमाह कोपात्
ये पार्थिवा राजसभां प्रविष्टा ब्रह्मर्षयो ये च सभासदोऽन्ये। श्रृण्वन्तु वक्ष्यामि तवापराधं पापस्य सामात्यपरिच्छदस्य
राज्यं कुरूणामनुरूपभोज्यं क्रमागतो नः कुलधर्म एषः। त्वं पापबुद्धेऽतिनृशंसकर्मन् राज्यं कुरूणामनयाद्विहंसि
राज्ये स्थितो धृतराष्ट्रो मनीषी तस्यानुजो विदुरो दीर्घदर्शी । एतावतिक्रम्य कथं नृपत्वं दुर्योधन प्रार्थयसेऽद्य मोहात्
राजा च क्षत्ता च महानुभावौ भीष्मे स्थिते परवन्तौ भवेताम् । अयं तु धर्मज्ञतया महात्मा न राज्यकामो नृवरो नदीजः
राज्य तु पाण्डोरिदमप्रधृष्यं तस्याद्य पुत्राः प्रभवन्ति नान्ये। राज्यं तदेतन्निखिलं पाण्डवानां पैतामहं पुत्रपौत्रानुगामि
यद्वै ब्रूते कुरुमुख्यो महात्मा देवव्रतः सत्यसन्धो मनीषी । सर्वं तदस्माभिरहत्य कार्यं राज्यं स्वधर्मान्परिपालयद्भिः
अनुज्ञया चाथ महाव्रतस्य ब्रूयान्नृपोऽयं विदुरस्तथैव। कार्यं भवेत्तत्सुहृद्भिर्नियोज्यं धर्मं पुरस्कृत्य सुदीर्घकालम्