अन्धः करणहीनत्वान्न वै राजा पिता तव। राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः
स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः । मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम्
मयि जीवति राज्यं कः संप्रशासेत्पुमानिह। मावमंस्या वचो मह्यं शममिच्छामि वः सदा
न विशेषोऽस्ति मे पुत्र त्वयि तेषु च षार्थिव। मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च
श्रोतव्यं खलु वृद्धानां नाभिशङ्कीर्वचो मम। नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा
भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत । मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः
प्रातीपः शन्तनुस्तात कुलस्यार्थे यथा स्थितः । यथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत्
तथा पाण्डुर्नरपतिः सत्यसन्धो जितेन्द्रियः। राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहिताः
ज्येष्ठाय राज्यमददद्धृतराष्ट्राय धीमते। यवीयसे तथा क्षत्रे कुरूणां वंशवर्धनः
ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् ।। वनं जगाम कौरव्यो भार्याभ्यां सहितो नृपः
नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत्। प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन्
ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् । अन्वपद्यन्त विधिवद्यथा पाण्डुं जनाधिपम्
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च। चचार पृथिवीं पाण्डुः सर्वां परपुरञ्जयः
कोशसंवनने दाने भृत्यानां चान्ववेक्षणे । भरणे चैव सर्वस्य विदुरः सत्यसङ्गरः
सन्धिविग्रहसंयुक्तो राज्ञां संवाहनक्रियाः । अवैक्षत महातेजा भीष्मः परपुरञ्जयः
सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः । अन्वास्यमानः सततं विदुरेण महात्मना
कथं तस्य कुले जातः कुलभेदं व्यवस्यसि। संभूय भ्रातृभिः सार्धं भुङ्क्ष भोगाञ्जनाधिप
ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथञ्चन । भीष्मेण दत्तमिच्छामि न त्वया राजसत्तम
नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप । यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु
दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन । सममाचार्यकं तात तव तेषां च मे सदा
अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम । बहुना किं प्रलापेन यतो धर्मस्ततो जयः
एवमुक्ते महाराज द्रोणेनामिततेजसा। व्याजहार ततो वाक्यं विदुरः सत्यसङ्गरः । पितुर्वदनमन्वीक्ष्य परिवृत्त्य च धर्मवित्
देवव्रत निबोधेदं वचनं मम भाषतः। प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः
तन्मे विलपमानस्य वचनं समुपेक्षसे। कोयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः
यस्य लोभाभिभूतस्य मतिं समनुवर्तसे । अनार्यस्याकृतज्ञस्य लोभेन हृतचेतसः । अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः
एते नश्यन्ति कुरवो दुर्योधनकृतेन वै। यथा ते न प्रणश्येयुर्महाराज तथा कुरु
मां चैव धृतराष्ट्रं च पूर्वमेव महामते। चित्रकार इवालेख्यं कृत्वा स्थापितवानसि
प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा। नोपेक्षश्व महाबाहो पश्यमानः कुलक्षयम्
अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते । वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् । शाधीदं राज्यमद्याशु पाण्डवैरभिरक्षितम्