प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः । प्रतिज्ञां रक्षमाणस्य तद्वृत्तं स्मरतस्तथा । ततः पौरा महाराज माता काली च मे शुभा
भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः। मामूचुर्भृशसंतप्ता भव राजेति सन्ततम्
प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति। स त्वमस्मद्धितार्थं वै राजा भव महामते
इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः । तेभ्यो न्यवेदयं तत्र प्रतिज्ञां पितृगोरवात्
ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः । विशेषतस्त्वदर्थं च धुरि मा मां नियोजय
ततोऽहं प्राञ्जलिर्भूत्वा मातरं संप्रसादयम्। नाम्ब शन्तनुना जातः कौरवं वंशमुद्वहन्
प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः । विशेषतस्त्वदर्थं च प्रतिज्ञां कृतवानहम्
अहं प्रेष्यश्च दासश्च तवाद्य सुतवत्सले । एवं तामनुनीयाहं मातरं जनसन्निधौ
अयाचं भ्रतृदारेषु तदा व्यासं महामुनिम् । सह मात्रा महाराज प्रसाद्य तमृषिं महामुनिम्
अपत्यार्थं महाराज प्रसादं कृतवांश्च सः । त्रीन्स पुत्रानजनयत्तदा भरतसत्तम
अन्धः करणहीनत्वान्न वै राजा पिता तव। राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः
स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः । मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम्
मयि जीवति राज्यं कः संप्रशासेत्पुमानिह। मावमंस्या वचो मह्यं शममिच्छामि वः सदा
न विशेषोऽस्ति मे पुत्र त्वयि तेषु च षार्थिव। मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च
श्रोतव्यं खलु वृद्धानां नाभिशङ्कीर्वचो मम। नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा
भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत । मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः
प्रातीपः शन्तनुस्तात कुलस्यार्थे यथा स्थितः । यथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत्
तथा पाण्डुर्नरपतिः सत्यसन्धो जितेन्द्रियः। राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहिताः
ज्येष्ठाय राज्यमददद्धृतराष्ट्राय धीमते। यवीयसे तथा क्षत्रे कुरूणां वंशवर्धनः
ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् ।। वनं जगाम कौरव्यो भार्याभ्यां सहितो नृपः
नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत्। प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन्
ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् । अन्वपद्यन्त विधिवद्यथा पाण्डुं जनाधिपम्
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च। चचार पृथिवीं पाण्डुः सर्वां परपुरञ्जयः
कोशसंवनने दाने भृत्यानां चान्ववेक्षणे । भरणे चैव सर्वस्य विदुरः सत्यसङ्गरः
सन्धिविग्रहसंयुक्तो राज्ञां संवाहनक्रियाः । अवैक्षत महातेजा भीष्मः परपुरञ्जयः
सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः । अन्वास्यमानः सततं विदुरेण महात्मना
कथं तस्य कुले जातः कुलभेदं व्यवस्यसि। संभूय भ्रातृभिः सार्धं भुङ्क्ष भोगाञ्जनाधिप
ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथञ्चन । भीष्मेण दत्तमिच्छामि न त्वया राजसत्तम
नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप । यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु
दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन । सममाचार्यकं तात तव तेषां च मे सदा