सामात्यो राजलिङ्गानि सोपनीय नराधिपः। पुरोहितसहायश्च जगामाश्रममुत्तमम्
दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम्। ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य ह। षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम्
विस्मयोत्फुल्लनयनो राजा प्रीतो बभूवह। ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः। शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु
यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम्। मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः
भारुण्डसामगीताभिरथर्वशिरसोद्गतैः। यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः
अथर्ववेदप्रवराः पूगयज्ञियसामगाः। संहितामीरयन्ति स्म पदक्रमयुतां तु ते
शब्दसंस्कारसंयुक्तर्ब्रुवद्भिश्चापरैर्द्विजैः। नादितः स बभौ श्रीमान्ब्रह्मलोक इवापरः
यज्ञसंस्तरविद्भिश्च क्रमशिक्षाविशारदैः। न्यायतत्त्वात्मविज्ञानसंपन्नैर्वेदपारगैः
नानावाक्यसमाहारसमवायविशारदैः। विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः
स्तापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः। शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः
द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः। पक्षिवानररुतज्ञैश्च व्यासग्रन्थसमाश्रितैः
नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम्। लोकायतिकमुख्यैश्च समन्तादनुनादितम्
तत्रतत्र च विप्रेन्द्रान्नियतान्संशितव्रतान्। जपहोमपरान्विप्रान्ददर्श परवीरहा
आसनानि विचित्राणि रुचिराणि महीपतिः। प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत्
देवतायतनानां च प्रेक्ष्य पूजां कृतां द्विजैः। ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः
स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम्। नातृप्यत्प्रेक्षमाणो वै तपोवनगुणैर्युतम्
स काश्यपस्यायतनं महाव्रतै- र्वृतं समान्तादृषिभिस्तपोधनैः। विवेश सामात्यपुरोहितोऽरिहा विविक्तमत्यर्थमनोहरं शुभम्
ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान्। नापश्यच्चाश्रमे तस्मिंस्तमृषिं संशितव्रतम्
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तथाऽऽश्रमम्। उवाच क इहेत्युच्चैर्वनं सन्नादयन्निव
श्रुत्वाऽथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी। निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी
सा तं दृष्ट्वैव राजानं दुष्यन्तमसितेक्षणा। `सुप्रीताऽभ्यागतं तं तु पूज्यं प्राप्तमथेश्वरम्
रूपयौवनसंपन्ना शीलाचारवती शुभा। सा तमायतपद्माक्षं व्यूढोरस्कं महाभुजम्
सिंहस्कन्धं दीर्घबाहुं सर्वलक्षणपूजितम्। स्पृष्टं मधुरया वाचा साऽब्रवीज्जनमेजया
स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च। आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि
पप्रच्छानामयं राजन्कुशलं च नराधिपम्। यथावदर्चयित्वाऽथ पृष्ट्वा चानामयं तदा
उवाच स्मयमानेव किं कार्यं क्रियतामिति। `आश्रमस्याभिगमने किं त्वं कार्यं चिकीर्षसि
कस्त्वमद्येह संप्राप्तो महर्षेराश्रमं शुभम्।' तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम्
दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः। `राजर्षेस्तस्य पुत्रोऽहमिलिनस्य महात्मनः
दुष्यन्त इति मे नाम सत्यं पुष्करलोचने। आगतोऽहं महाभागमृषिं कण्वमुपासितुम्
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात्। मुहूर्तं संप्रतीक्षस्व द्रष्टास्येनमुपागतम्