त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन । दत्तं तत्प्रतिजानीहि सङ्गरप्रतिमोचनम्
अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् । तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक्
आगम्य हास्तिनपुरादुपप्लाव्यमरिन्दमः । पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान्
संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः । स्वमेव भवनं शौरिर्विश्रमार्थं जगाम ह
विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा। पाण्डवा भ्रातरः पञ्च भानावस्तंगते सति
सन्ध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः। आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन्
त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः। किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि
मया नागपुरं गत्वा सभायां धृतराष्ट्रजः। तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः
तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः। किमुक्तवान्हृषीकेश दुर्योधनममर्षणम्
आचार्यो वा महाभाग भारद्वाजः किमब्रवीत्। पितरौ धृतराष्ट्रस्तं गान्धारी वा किमब्रवीत्
पिता यवीयानस्माकं क्षत्ता धर्मविदां वरः। पुत्रशोकाभिसन्तप्तः किमाह धृतराष्ट्रजम्
किंच सर्वे नृपतयः सभायां ये समासते। उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन
उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः। धार्तराष्ट्रस्य तेषां हि वचनं कुरुसंसदि
कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः । अप्रियं हृदये मह्यं तन्न तिष्ठति केशव
तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो। यथा च नाभिपद्येत कालस्तात तथा कुरु। भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः
श्रृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः। मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे
मया विश्राविते वाक्ये जहास धृतराष्ट्रजः । अथ भीष्मः सुसंक्रुद्ध इदं वचनमब्रवीत्
दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते। तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु
मम तात पिता राजञ्शन्तनुर्लोकविश्रुतः। तस्याहमेक एवासं पुत्रः पुत्रवतां वरः
तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः। एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः
न चोच्छेदं कुलं यायाद्विस्तीर्येच्च कथं यशः। तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम्
प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च। अराजा चोर्ध्वरेताश्च यथा सुविदितं तव। प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन्
तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः । विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिव
स्वर्यातेऽहं पितरि तं स्वराज्ये सन्न्यवेशयम्। विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः
तस्याहं सदृशान्दारान्राजेन्द्र समुपाहरम्। जित्वा पार्थिवसङ्घातमपि ते बहुशः श्रुतम्
ततो रामेण समरे द्वन्द्वयुद्धमुपागमम्। स हि रामभयादेभिर्नागरैर्विप्रवासितः
दारेष्वप्यतिसक्तश्च यक्ष्माणं समपद्यत। यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः । तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः
उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः। ईतीः प्रणुद भद्रं शन्तनोः कुलवर्धन
पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः । अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि
व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय। त्वयि जिवती मा राष्ट्रं विनाशमुपगच्छतु