अहं चेत्क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् । त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम्
क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम। हीनसंस्क्रासमयमद्य मां समचूचुदः
न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया। सा मां संबोधयस्यद्य केवलात्महितैषिणी
कृष्णेन सहितात्को वै न व्यथेत धनंजयात्। कोद्य भीतं न मां विद्यात्पर्थानां समितिं गतम्
अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः । पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति
सर्वकामैः संविभक्तः पूजितश्च यथासुखम् । अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम्
उपनह्य परैर्वैरं ये मां नित्यमुपासते । नमस्कुर्वन्ति च सदा वसवो वासवं यथा
मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम्। मन्यन्ते ते कथं तेषामहं छिन्द्यां मनोरथम्
मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम्। अपारे पारकामा ये त्यजेयं तानहं कथम्
अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम् । निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता
कृतार्थाः सुभृता ये हि कृत्यकाले ह्युपस्थिते। अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः
राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम्। नैवायं न परो लोको विद्यते पापकर्मणाम्
धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः । बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे
आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम्। अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः
न च तेऽयं समारम्भो मयि मोघो भविष्यति। वध्यान्विषह्यान्संग्रामे न हनिष्यामि ते सुतान्
युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते । अर्जुनेन समं युद्धमपि यौधिष्ठिरे बले
अर्जुनं हि निहत्याजौ संप्राप्तं स्यात्फलं मया। यशसा चापि युज्येयं निहतः सव्यसाचिना
न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि । निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि
इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेषती । उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पनम्
एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः । यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम्
त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन । दत्तं तत्प्रतिजानीहि सङ्गरप्रतिमोचनम्
अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् । तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक्
आगम्य हास्तिनपुरादुपप्लाव्यमरिन्दमः । पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान्
संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः । स्वमेव भवनं शौरिर्विश्रमार्थं जगाम ह
विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा। पाण्डवा भ्रातरः पञ्च भानावस्तंगते सति
सन्ध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः। आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन्
त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः। किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि
मया नागपुरं गत्वा सभायां धृतराष्ट्रजः। तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः
तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः। किमुक्तवान्हृषीकेश दुर्योधनममर्षणम्
आचार्यो वा महाभाग भारद्वाजः किमब्रवीत्। पितरौ धृतराष्ट्रस्तं गान्धारी वा किमब्रवीत्