अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि। कौरव्यपत्नी वार्ष्णेयी मद्ममालेव शुष्यती
आपृष्ठतापाञ्जप्त्वा स परिवृत्त्य यतव्रतः । दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः
यथान्यायं महातेजा मानी धर्मभृतां वरः । उत्स्मयन्प्रणतः प्राह कुन्तीं वैकर्तनो वृषः
राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये । प्राप्ता किमर्थं भवती ब्रूहि किं करवामि ते
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता। नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः
कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः । कुन्तिराजस्य भवने पार्थस्त्वमसि पुत्रक
प्रकाशकर्मा तपनो योऽयं देवो विरोचनः । अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम्
कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः । जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे
स त्वं भ्रातॄनसंबुद्ध्य मोहद्यदुपसेवसे । धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः
एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये । यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी
अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः । आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष यौधिष्ठिरीं श्रियम्
अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम् । सौभ्रात्रेण समालक्ष्य संनमन्तामसाधवः
कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ । असाध्यं किं नु लोके स्याद्युवयोः संहितात्मनोः
कर्ण शोभिष्यसे नूनं पञ्चमिर्भ्रातृभिर्वृतः। देवैः परिवृतो ब्रह्मा वेद्यामिव महाध्वरे
उपपद्यो गुणैः सर्वैर्ज्येष्ठः श्रेष्ठेषु बन्धुषु । सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान्
ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम्। दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम्
सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु। श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा
एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना । चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा
न चैतच्छ्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया। धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव
अकरोन्मयि यत्पापं भवती सुमहात्ययम् । अपाकीर्णोऽस्मि यन्मातस्तद्यशःकीर्तिनाशनम्
अहं चेत्क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् । त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम्
क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम। हीनसंस्क्रासमयमद्य मां समचूचुदः
न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया। सा मां संबोधयस्यद्य केवलात्महितैषिणी
कृष्णेन सहितात्को वै न व्यथेत धनंजयात्। कोद्य भीतं न मां विद्यात्पर्थानां समितिं गतम्
अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः । पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति
सर्वकामैः संविभक्तः पूजितश्च यथासुखम् । अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम्
उपनह्य परैर्वैरं ये मां नित्यमुपासते । नमस्कुर्वन्ति च सदा वसवो वासवं यथा
मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम्। मन्यन्ते ते कथं तेषामहं छिन्द्यां मनोरथम्
मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम्। अपारे पारकामा ये त्यजेयं तानहं कथम्
अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम् । निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता