ततः स्वरथामस्थाय जाम्बूनदविभूषितम्। महात्मा वै निववृते राधेयो दीनमानसः
ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः। पुनरुच्चारयन्वाणीं याहि याहीति सारथिम्
असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते। अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत्
जानासि मे जीवपुत्री भावं नित्यमविग्रहे । क्रोशतो नच गृह्णीते वचनं मे सुयोधनः
उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः । भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि
उपप्लाव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः। काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा
राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति। मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते
जयद्रथस्य कर्णस्य तथा दुःशासनस्य च। सौबलस्य च दुर्बुद्ध्या मिथो भेदः प्रपत्स्यते
अधर्मेम हि धर्मिष्ठं ह्रियते राज्यमीदृशम्। येषां तेषामयं धर्मः सानुबन्धो भविष्यति
क्रियमाणे बलाद्धर्मे कुरुभिः को न संज्वरेत्। असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः
ततः कुरूणामनयो भविता वीरनाशनः। चिन्तयन्न लभे निद्रामहःसु च निशासु च
श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम्। सा निःश्वसन्ती दुःखार्ता मनसा विममर्श ह
धिगस्त्वर्थं यत्कृतेयं सुमहाञ्ज्ञातिसंक्षयः। वर्त्स्यते सुहृदां चैव युद्धेऽस्मिन्वै पराभवः
पाण्डवाश्चेदिपञ्चाला यादवाश्च समागताः। भारतैः सह योत्स्यन्ति किं नु दुःखमतःपरम्
पश्ये दोषं ध्रुवं युद्धे तथाऽयुद्धे पराभवम् । अधनस्य मृतं श्रेयो न हि ज्ञातिक्षयो जयः। इति मे चिन्तयन्त्या वै हृदि दुःखं प्रवर्तते
पितामहः शान्तनव आचार्यश्च युधां पतिः। कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम
नाचार्यः कामवाञ्शिष्यैद्रौणोयुद्ध्येत जातुचित्। पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः
अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः। मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान्
महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः। कर्णः सदा पाण्डवानां तन्मे दहति संप्रति
आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति । ग्रसादयितुमासाद्य दर्शयन्ती यथातथम्
तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ । आह्वानं मन्त्रसंयुक्तं वसन्त्याः पितृवेश्मनि
साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता । चिन्तयन्ती बहुविधं हृदयेन विदूयता
बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् । स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः
धात्र्या विस्रब्धया गुप्ता सखीजनवृता तदा। दोषं परिहरन्ती च पितुश्चारित्र्यरक्षिणी
कथं नु सुकृतं मे स्यान्नापराधवती कथम्। भवेयमिति संचिन्त्य ब्राह्मणं तं नमस्य च
कौतूहलात्तु तं लब्धा बालिश्यादाचरं तदा। कन्या सती देवमर्कमासादयमहं ततः
योऽसौ कानीनगर्भो मे पुत्रवत्परिरक्षितः । कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा
इति कुन्ती विनिश्चित्य कार्यनिश्चयमुत्तमम् । कार्यार्थमभिनिश्चित्य ययौ भागीरथीं प्रति
आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः । गङ्गातीरे पृथापश्यञ्जपस्थानमनुत्तमम्
प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः। जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी