सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम्। सकिन्नरगणावासां वारनर्क्षनिषेविताम्
पुण्यस्वाध्यायसंघुष्टा पुलिनैरुपशोभिताम्। मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम्
तस्यास्तीरे भगवतः काश्यपस्य महात्मनः। आश्रमप्रवरं रम्यं महर्षिगणसेवितम्
नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा। चकाराभिप्रवेशाय मतिं स नृपतिस्तदा
अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया। नरनारायणस्थानं गङ्गयेवोपशोभितम्
मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम्। तत्स चैत्ररथप्रख्यं समुपेत्य नरर्षभः
अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा। महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम्
ध्वजिनीमश्वसंबाधां पदातिगजसङ्कुलाम्। अवस्थाप्य वनद्वारि सेनामिदमुवाच सः
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम्। काश्यपं स्थीयतामत्र यावदागमनं मम
तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः।। क्षुत्पिपासे जहौ राजा मुदं चावाप पुष्कलाम्
सामात्यो राजलिङ्गानि सोपनीय नराधिपः। पुरोहितसहायश्च जगामाश्रममुत्तमम्
दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम्। ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य ह। षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम्
विस्मयोत्फुल्लनयनो राजा प्रीतो बभूवह। ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः। शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु
यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम्। मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः
भारुण्डसामगीताभिरथर्वशिरसोद्गतैः। यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः
अथर्ववेदप्रवराः पूगयज्ञियसामगाः। संहितामीरयन्ति स्म पदक्रमयुतां तु ते
शब्दसंस्कारसंयुक्तर्ब्रुवद्भिश्चापरैर्द्विजैः। नादितः स बभौ श्रीमान्ब्रह्मलोक इवापरः
यज्ञसंस्तरविद्भिश्च क्रमशिक्षाविशारदैः। न्यायतत्त्वात्मविज्ञानसंपन्नैर्वेदपारगैः
नानावाक्यसमाहारसमवायविशारदैः। विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः
स्तापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः। शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः
द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः। पक्षिवानररुतज्ञैश्च व्यासग्रन्थसमाश्रितैः
नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम्। लोकायतिकमुख्यैश्च समन्तादनुनादितम्
तत्रतत्र च विप्रेन्द्रान्नियतान्संशितव्रतान्। जपहोमपरान्विप्रान्ददर्श परवीरहा
आसनानि विचित्राणि रुचिराणि महीपतिः। प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत्
देवतायतनानां च प्रेक्ष्य पूजां कृतां द्विजैः। ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः
स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम्। नातृप्यत्प्रेक्षमाणो वै तपोवनगुणैर्युतम्
स काश्यपस्यायतनं महाव्रतै- र्वृतं समान्तादृषिभिस्तपोधनैः। विवेश सामात्यपुरोहितोऽरिहा विविक्तमत्यर्थमनोहरं शुभम्
ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान्। नापश्यच्चाश्रमे तस्मिंस्तमृषिं संशितव्रतम्
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तथाऽऽश्रमम्। उवाच क इहेत्युच्चैर्वनं सन्नादयन्निव
श्रुत्वाऽथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी। निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी