उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा । धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम्
मांसशोणितवर्षं च वृष्टं देवेन माधव । तथा गन्धर्वनगरं भानुमत्समुपस्थितम्
सप्राकारं सपरिखं सवप्रं चारुतोरणम् । कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति
उदयास्तमने संध्ये वेदयन्ती महद्भयम् । शिवा च वाशते घोरं तत्पराभवलक्षणम्
एकपक्षाक्षिचरणाः पक्षिणो मधुसूदन । उत्सृजन्ति महद्धोरं तत्पराभवलक्षणम्
कृष्णग्रीवाश्च शकुना रक्तपादा भयानकाः । सन्ध्यामिमुखा यान्ति तत्पराभवलक्षणम्
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन । भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम्
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा । आमपात्रप्रतीकाशा पश्चिमा मधुसूदन
उत्तरा शङ्खवर्णाभा दिशां वर्णा उदाहृताः ।। प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव
महद्भयं वेदयन्ति तस्मिन्नुत्पातदर्शने ।। सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः
अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ।। श्वेतोष्णीषाश्च दृश्यन्ते सर्वे वै शुक्लवाससः
आसनानि च शुभ्राणि सर्वेषामुपलक्षये ।। तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला
आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ।। अस्थिसञ्चयमारूढश्चामितौजा यधिष्ठिरः
सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ।। युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम्
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः। गदापाणिर्नरव्याघ्रो ग्रसन्निव महीमिमाम्
क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे। विदितं मे हृषीकेश श्रिया परमया ज्वलन्
पाण्डुरं गजमारूढो गाण्डीवी स धनञ्जयः। त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन्
यूयं सर्वे वधिष्यध्वं तत्र मे नास्ति संशयः। पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान्
नकुलः सहदेवश्च सात्यकिश्च महारथः । शुक्लकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् । त्रय एते मया दृष्टाः पाण्डुरच्छत्रवाससः
श्वेतोष्णीषाश्च दृश्यन्ते त्रय एते जनार्दन । धार्तराष्ट्रेषु सैन्येषु तान्विजानीहि केशव
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः । रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः
उष्ट्रप्रयुक्तमारूढौ भीष्मद्रोणौ महारथौ । मया सार्धं महाबाहो धार्तराष्ट्रेण वा विभो
अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन । अचिरेणैव कालेन प्राप्स्यामो यमसादनम्
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् । गाण्डिवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः
अपस्थितविनाशेयं नूनमद्य वसुंधरा। यथा हि मे वचः कर्ण नोपैति हृदयं तव
सर्वेषां तात भूतानां विनाशे प्रत्युपस्थिते। अनयो नयसङ्काशो हृदयान्नापसर्पति
अपि त्वां कृष्ण पश्यामो जीवन्तोऽस्मान्महारणात्। समुत्तीर्णा महाबाहो वीरक्षत्रविनाशनात्
अथवा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम्। तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम्। विसर्जितः केशवेन रथोपस्थादवातरत्