प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् । न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् । सुयोधनंच राजानं सैन्धवं च जयद्रथम्
युद्धायापततस्तूर्णं वारितान्सव्यसाचिना। न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि सङ्ग्रामे माद्रीपुत्रौ महाबलौ । वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव
विगाढे शस्त्रसंपाते परवीररथारुजौ । न तदा भविता त्रेता न कृतं द्वापरं न च
ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् । सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः
सर्वौषधिवनस्फीतः फलवानल्पमक्षिकः । निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः
सप्तमाच्चापि दिवसादमावास्या भविष्यति। सङ्ग्रामो युज्यतां तस्यां तामाहुः शक्रदेवताम्
तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः। यद्वो मनीषितं तद्वै सर्वं संपादयाम्यहम्
राजानो राजपुत्राश्च दुर्योधनवशानुगाः । प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम्
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम्। अब्रवीदभिसंपूज्य कृष्णं तं मधुसूदनम्
जानन्मां किं महाबाहो संमोहयितुमिच्छसि। योयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः
निमित्तं तत्र शकुनिरहं दुःशासनस्तथा। दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत्
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम्। पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम्
राजानो राजपुत्राश्च दुर्योधनवशानुगाः । रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम्
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन। निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे । संसन्त इव वार्ष्णेय विविधा रोमहर्षणाः
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः । शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम्
कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन। अनुराधां प्रार्थयते मैत्रं संगमयन्निव
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् । विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपैति च। दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकंपनाः
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः । पानीयं यवसं चापि नाभिनन्दन्ति माधव
प्रादुर्भूतेषु चैतेषु भयमाहुरुपास्थितम्। निमित्तेषु महाबाहो दारुणं प्राणिनाशनम्
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते। वाजिनां वारणानां च मनुष्याणां च केशव
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन। पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते। प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम्
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव । वाचश्चाप्यशरीरिण्यस्तकत्पराभवलक्षणम्
मयूराः पुण्यशकुना हंससारसचातकाः । जीवञ्जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान्
गृध्राः कङ्का बकाः श्येना यातुधानास्तथा वृकाः । मक्षिकाणां च सङ्घाता अनुधावन्ति कौरवान्
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निःस्वनः । अनाहताः पाण्डवानां नदन्ति पटहाः किल