कर्णस्य वचनं श्रुत्वा केशवः परवीरहा। उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं यथा
अपि त्वां न लभेत्कर्ण राज्यलम्भोपपादनम् । मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि
ध्रुवो जयः पाण्डवानामितीदं न संशयः कश्चन विद्यतेऽत्र। जयध्वजो दृश्यते पाण्डवस्य समुच्छ्रितो वानरराज उग्रः
दिव्या माया विहिता भौमनेन समुच्छ्रिता इन्द्रकेतुप्रकाशाः । दिव्यानि भूतानि जयावहानि दृश्यन्ति चैवात्र भयानकानि
न सञ्जते शैलवनस्पतिभ्य ऊर्ध्वं तिर्यग्योजनमात्ररूपः । श्रीमान्ध्वजः कर्ण धनञ्जयस्य समुच्छ्रितः पावकतुल्यरूपः
यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् । ऐन्द्रमस्त्रं विकुर्वाणमुभे चाप्यग्निमारुते
गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः। न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् । जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम्
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् । न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् । दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे
प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् । न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् । सुयोधनंच राजानं सैन्धवं च जयद्रथम्
युद्धायापततस्तूर्णं वारितान्सव्यसाचिना। न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि सङ्ग्रामे माद्रीपुत्रौ महाबलौ । वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव
विगाढे शस्त्रसंपाते परवीररथारुजौ । न तदा भविता त्रेता न कृतं द्वापरं न च
ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् । सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः
सर्वौषधिवनस्फीतः फलवानल्पमक्षिकः । निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः
सप्तमाच्चापि दिवसादमावास्या भविष्यति। सङ्ग्रामो युज्यतां तस्यां तामाहुः शक्रदेवताम्
तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः। यद्वो मनीषितं तद्वै सर्वं संपादयाम्यहम्
राजानो राजपुत्राश्च दुर्योधनवशानुगाः । प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम्
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम्। अब्रवीदभिसंपूज्य कृष्णं तं मधुसूदनम्
जानन्मां किं महाबाहो संमोहयितुमिच्छसि। योयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः
निमित्तं तत्र शकुनिरहं दुःशासनस्तथा। दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत्
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम्। पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम्
राजानो राजपुत्राश्च दुर्योधनवशानुगाः । रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम्
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन। निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे । संसन्त इव वार्ष्णेय विविधा रोमहर्षणाः
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः । शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम्
कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन। अनुराधां प्रार्थयते मैत्रं संगमयन्निव
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् । विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः