कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः । तोमराः सोमकलशाः पवित्राणि धनूंषि च
असयोऽत्र कपालानि पुरोडाशाः शिरांसि च। हविस्तु रुधिरं कृष्ण तस्मिन्यज्ञे भविष्यति
इध्माः परिधयश्चैव शक्तयो विमला गदाः। सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः
इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना । महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः
प्रतिप्रास्थानिकं कर्म सात्यकिस्तु करिष्यति। दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः
घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः । अतिरात्रे महाबाहो वितते यज्ञकर्मणि
दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् । वैतानिके कर्ममुखे जातो यत्कृष्ण पावकात्
यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान्। प्रियार्थं धार्तराष्ट्रस्य तेन तप्ये ह्यकर्मणा
यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना । पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति
दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः । आनर्दं नर्दतः सम्यक् तदा सूयं भविष्यति
यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः । तदा यज्ञावसानं तद्भविष्यति जनार्दन
दुर्योधनं यदा हन्ता भीमसेनो महाबलः । तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य सङ्गताः । हतेश्वरा नष्टपुत्रा हतनाथाश्च केशव
रुदन्त्यः सहगान्धार्या श्वगृध्रकुरराकुले । स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन
विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ । वृथा मृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन
शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् । करुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव
तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् । यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात्
यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन । तावत्कीर्तिभवः शब्दः शाश्वतोयं भविष्यति
ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् । समागमेषु वार्ष्णेय क्षत्रियाणां यशोधनम्
समुपानय कौन्तेयं युद्धाय मम केशव । मन्त्रसंवरणं कुर्वन्नित्यमेव परन्तप
कर्णस्य वचनं श्रुत्वा केशवः परवीरहा। उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं यथा
अपि त्वां न लभेत्कर्ण राज्यलम्भोपपादनम् । मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि
ध्रुवो जयः पाण्डवानामितीदं न संशयः कश्चन विद्यतेऽत्र। जयध्वजो दृश्यते पाण्डवस्य समुच्छ्रितो वानरराज उग्रः
दिव्या माया विहिता भौमनेन समुच्छ्रिता इन्द्रकेतुप्रकाशाः । दिव्यानि भूतानि जयावहानि दृश्यन्ति चैवात्र भयानकानि
न सञ्जते शैलवनस्पतिभ्य ऊर्ध्वं तिर्यग्योजनमात्ररूपः । श्रीमान्ध्वजः कर्ण धनञ्जयस्य समुच्छ्रितः पावकतुल्यरूपः
यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् । ऐन्द्रमस्त्रं विकुर्वाणमुभे चाप्यग्निमारुते
गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः। न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् । जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम्
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् । न तदा भविता त्रेता न कृतं द्वापरं न च
यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् । दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे