यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना । अकीर्तिः स्याद्धृपीकेश मम पार्थस्य चोभयोः
असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन । सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः
मन्त्रस्य नियमं कुर्यास्त्वमत्र मधुसूदन । एतदत्र हितं मन्ये सर्वं यादवनन्दन
यदि जानाति मां राजा धर्मात्मा संयतेन्द्रियः । कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति
प्राप्य चापि महद्राज्यं तदहं मधुसूदन । स्फीतं दुर्योधनायैव संप्रदद्यामरिन्दम
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः । नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः
पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः । नकुलः सहदेवश्च द्रौपदेयाश्च माधव
धृष्टद्युम्नश्च पाञ्चाल्यः सात्यकिश्च महारथः । उत्तमौजा युधामन्युः सत्यधर्मा च सौमकिः
चैद्यश्च चेकितानश्च शिखण्डी चापराजितः । इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा। इन्द्रायुधसवर्णश्च कुन्तिभोजो महामनाः
मातुलो भीमसेनस्य श्येनजिच्च महारथः । शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन
महानयं कृष्ण कृतः क्षत्रस्य समुदानयः । राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु
धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति। अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन
आध्वर्यवं च ते कृष्ण ऋतावस्मिन्भविष्यति। होता चैवात्र बीभत्सुः सन्नद्धः स कपिध्वजः
गाण्डीवं स्रुक् तथा चाज्यं वीर्यं पुंसां भविष्यति। ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव । मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना
अनुयातश्च पितरमधिको वा पराक्रमे । गीतं स्तोत्रं स सौभद्रः सम्यक् तत्र भविष्यति
उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः । विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे
स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः । जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति
शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन। उत्कृष्टः सिंहनादश्च सुब्रह्मण्यो भविष्यति
नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ । शामित्रं तौ महावीर्यौ सम्यक् तत्र भविष्यतः। `तौ मैत्रावरुणाग्नीध्रौ महावीर्यौ भविष्यतः
कल्माषदण्डा गोविन्द विमला रथपङ्क्तयः। यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन
कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः । तोमराः सोमकलशाः पवित्राणि धनूंषि च
असयोऽत्र कपालानि पुरोडाशाः शिरांसि च। हविस्तु रुधिरं कृष्ण तस्मिन्यज्ञे भविष्यति
इध्माः परिधयश्चैव शक्तयो विमला गदाः। सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः
इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना । महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः
प्रतिप्रास्थानिकं कर्म सात्यकिस्तु करिष्यति। दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः
घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः । अतिरात्रे महाबाहो वितते यज्ञकर्मणि
दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् । वैतानिके कर्ममुखे जातो यत्कृष्ण पावकात्
यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान्। प्रियार्थं धार्तराष्ट्रस्य तेन तप्ये ह्यकर्मणा
यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना । पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति
दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः । आनर्दं नर्दतः सम्यक् तदा सूयं भविष्यति