सिद्धचारणसङ्घैश्च गन्धर्वाप्सरसां गणैः। सेवितं वनमत्यर्थं मत्तवानरकिन्नरैः
सुखः शीतः सुगन्धी च पुष्परेणुवहोऽनिलः। परिक्रामन्वने वृक्षानुपैतीव रिरंसया
एवंगुणसमायुक्तं ददर्श स वनं नृपः। नदीकच्छोद्भं कान्तमुच्छ्रितध्वजसन्निभम्
प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम्। आश्रमप्रवरं रम्यं ददर्श च मनोरमम्
नानावृक्षसमाकीर्णं संप्रज्वलितपावकम्। तं तदाऽप्रतिमं श्रीमानाश्रमं प्रत्यपूजयत्
यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम्। अग्न्यगारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम्
महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च। मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम्
नैकपक्षिगणाकीर्णां तपोवनमनोरमाम्। तत्रव्यालमृगान्सैम्यान्पश्यन्प्रीतिमवाप सः
तं चाप्रतिरथः श्रीमानाश्रमं प्रत्यपद्यत। देवलोकप्रतीकाशं सर्वतः सुमनोहरम्
नदीं चाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः। सर्वप्राणभृतां तत्र जननीमिव धिष्ठिताम्
सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम्। सकिन्नरगणावासां वारनर्क्षनिषेविताम्
पुण्यस्वाध्यायसंघुष्टा पुलिनैरुपशोभिताम्। मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम्
तस्यास्तीरे भगवतः काश्यपस्य महात्मनः। आश्रमप्रवरं रम्यं महर्षिगणसेवितम्
नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा। चकाराभिप्रवेशाय मतिं स नृपतिस्तदा
अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया। नरनारायणस्थानं गङ्गयेवोपशोभितम्
मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम्। तत्स चैत्ररथप्रख्यं समुपेत्य नरर्षभः
अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा। महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम्
ध्वजिनीमश्वसंबाधां पदातिगजसङ्कुलाम्। अवस्थाप्य वनद्वारि सेनामिदमुवाच सः
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम्। काश्यपं स्थीयतामत्र यावदागमनं मम
तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः।। क्षुत्पिपासे जहौ राजा मुदं चावाप पुष्कलाम्
सामात्यो राजलिङ्गानि सोपनीय नराधिपः। पुरोहितसहायश्च जगामाश्रममुत्तमम्
दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम्। ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य ह। षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम्
विस्मयोत्फुल्लनयनो राजा प्रीतो बभूवह। ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः। शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु
यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम्। मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः
भारुण्डसामगीताभिरथर्वशिरसोद्गतैः। यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः
अथर्ववेदप्रवराः पूगयज्ञियसामगाः। संहितामीरयन्ति स्म पदक्रमयुतां तु ते
शब्दसंस्कारसंयुक्तर्ब्रुवद्भिश्चापरैर्द्विजैः। नादितः स बभौ श्रीमान्ब्रह्मलोक इवापरः
यज्ञसंस्तरविद्भिश्च क्रमशिक्षाविशारदैः। न्यायतत्त्वात्मविज्ञानसंपन्नैर्वेदपारगैः
नानावाक्यसमाहारसमवायविशारदैः। विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः
स्तापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः। शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः