स्तुवन्तु त्वां च बहुभिः स्तुतिभिः सूतमागधाः । विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः। प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा। सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः
असंशयं सौहृदान्मे प्रणयाच्चाथ केशव। सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च
सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः । निश्चयाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे
कन्या गर्भं समाधत्त भास्करान्मां जनार्दन । आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत्
सोस्मि कृष्ण तथाजातः पाण्डोः पुत्रोस्मि धर्मतः । कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा
सूतो हि मामधिरथो दृष्ट्वैवाभ्यानयद्गृहान्। राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन
मत्स्नेहाच्चैव राधायां सद्यः क्षीरमवातरत् । सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव
तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् । धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः
तथा मामभिजानाति सूतश्चाधिरथः सुतम् । पितरं चाभिजानामि तमहं सौहृदात्सदा
स हि मे जातकर्मादि कारयामास माधव । शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन
नाम वै वसुषेणेति कारयामास वै द्विजैः । भार्याश्चोढा मम प्राप्ते यौवने तत्परिग्रहात्
तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन । तासु मे हृदयं कृष्ण संजातं कामबन्धनम्
न पृथिव्या सकलया न सुवर्णस्य राशिभिः। हर्षाद्भयाद्वा गोविन्द मिथ्या कर्तुं तदुत्सहे
धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् । मया त्रयोदशसमा भुक्तं राज्यमकण्टकम्
इष्टं च बहुभिर्यज्ञैः सहसूतैर्मयाऽसकृत्। आवाहाश्च विवाहाश्च सहसूतैर्मया कृताः
मां च कृष्ण समासाद्य कृतः शस्त्रसमुद्यमः । दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः
तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत । वृतवान्परमं कृष्ण प्रतीपं सव्यसाचिनः
वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन । अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः
यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना । अकीर्तिः स्याद्धृपीकेश मम पार्थस्य चोभयोः
असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन । सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः
मन्त्रस्य नियमं कुर्यास्त्वमत्र मधुसूदन । एतदत्र हितं मन्ये सर्वं यादवनन्दन
यदि जानाति मां राजा धर्मात्मा संयतेन्द्रियः । कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति
प्राप्य चापि महद्राज्यं तदहं मधुसूदन । स्फीतं दुर्योधनायैव संप्रदद्यामरिन्दम
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः । नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः
पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः । नकुलः सहदेवश्च द्रौपदेयाश्च माधव
धृष्टद्युम्नश्च पाञ्चाल्यः सात्यकिश्च महारथः । उत्तमौजा युधामन्युः सत्यधर्मा च सौमकिः
चैद्यश्च चेकितानश्च शिखण्डी चापराजितः । इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा। इन्द्रायुधसवर्णश्च कुन्तिभोजो महामनाः
मातुलो भीमसेनस्य श्येनजिच्च महारथः । शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन