पुरोहितः पाण्डवानां ब्रह्मकर्मण्यवस्थितः। तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा । अहं च त्वाऽभिषेक्ष्यामि राजानं पृथिवीपतिम्
युवराजोऽस्तु ते राजा धर्मपुत्रो युधिष्ठिरः। गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः । छत्रं च ते महाश्वेतं भीमसेनो महाबलः
अभिषिक्तस्य कौन्तेयो धारयिष्यति मूर्धनि । किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम्
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति। अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये। पञ्चालाश्चानुयास्यन्ति शिखण्डी च महारथः
अहं च त्वाऽनुयास्यामि सर्वे चान्धकवृष्णयः। दाशार्हाः परिवारास्ते दाशार्णाश्च विशांपते
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः । जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः
पुरोगमाश्च ते सन्तु द्रविडाः सहकुन्तलैः। आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा
स्तुवन्तु त्वां च बहुभिः स्तुतिभिः सूतमागधाः । विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः। प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा। सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः
असंशयं सौहृदान्मे प्रणयाच्चाथ केशव। सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च
सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः । निश्चयाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे
कन्या गर्भं समाधत्त भास्करान्मां जनार्दन । आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत्
सोस्मि कृष्ण तथाजातः पाण्डोः पुत्रोस्मि धर्मतः । कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा
सूतो हि मामधिरथो दृष्ट्वैवाभ्यानयद्गृहान्। राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन
मत्स्नेहाच्चैव राधायां सद्यः क्षीरमवातरत् । सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव
तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् । धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः
तथा मामभिजानाति सूतश्चाधिरथः सुतम् । पितरं चाभिजानामि तमहं सौहृदात्सदा
स हि मे जातकर्मादि कारयामास माधव । शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन
नाम वै वसुषेणेति कारयामास वै द्विजैः । भार्याश्चोढा मम प्राप्ते यौवने तत्परिग्रहात्
तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन । तासु मे हृदयं कृष्ण संजातं कामबन्धनम्
न पृथिव्या सकलया न सुवर्णस्य राशिभिः। हर्षाद्भयाद्वा गोविन्द मिथ्या कर्तुं तदुत्सहे
धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् । मया त्रयोदशसमा भुक्तं राज्यमकण्टकम्
इष्टं च बहुभिर्यज्ञैः सहसूतैर्मयाऽसकृत्। आवाहाश्च विवाहाश्च सहसूतैर्मया कृताः
मां च कृष्ण समासाद्य कृतः शस्त्रसमुद्यमः । दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः
तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत । वृतवान्परमं कृष्ण प्रतीपं सव्यसाचिनः
वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन । अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः