मन्त्री जनार्दनो यस्य भ्राता यस्य धनञ्जयः। सर्वशस्त्रभृतां श्रेष्ठः कथं जेष्यसि पाण्डवम्
सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः। तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम्
पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता। सुहृदा मञ्जमानेषु सुहृत्सु व्यसनार्णवे
अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये । मा गमः सतुतामात्यःसमित्रश्च यमक्षयम्
राजपुत्रैः परिवृतस्तथा भृत्यैश्च सत्तम। उपारोप्य रथे कर्णं निर्यातो मधुसूदनः
किमब्रवीद्रथोपस्थे राधेयं परवीरहा । कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान्
उद्यन्मेघस्वनः काले यत्कृष्णः कर्णमब्रवीत्। मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सर्वशः
आनुपूर्व्येण वाक्यानि तीक्ष्णानि च मृदूनि च। प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च
हृदयग्रहणीयानि राधेयं मधुसूदनः । यान्यब्रवीदमेयात्मा तानि मे श्रृणु भारत
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः। तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया
त्वमेव कर्ण जानासि वेदवादान्सनातनान् । त्वमेव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः
कानीनश्च सहोढश्च कन्यायां यश्च जायते । वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः
सोऽसि कर्ण तथाजातः पाण्डोः पुत्रोसि धर्मतः । निश्चयाद्धर्मशास्त्राणामेहि राजा भविष्यसि
पितृपक्षे च ते पार्था मातृपक्षे च वृष्णयः । द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः । अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात्
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः। द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः
राजानो राजपुत्राश्च पाण्डवार्थे समागताः। पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा । ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः
राजन्या राजकन्याश्चाप्यानयन्त्वाभिषेचनम् । षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति
अग्निं जुहोतु वै धौम्यः संशितात्मा द्विजोत्तमः । अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः
पुरोहितः पाण्डवानां ब्रह्मकर्मण्यवस्थितः। तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा । अहं च त्वाऽभिषेक्ष्यामि राजानं पृथिवीपतिम्
युवराजोऽस्तु ते राजा धर्मपुत्रो युधिष्ठिरः। गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः । छत्रं च ते महाश्वेतं भीमसेनो महाबलः
अभिषिक्तस्य कौन्तेयो धारयिष्यति मूर्धनि । किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम्
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति। अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये। पञ्चालाश्चानुयास्यन्ति शिखण्डी च महारथः
अहं च त्वाऽनुयास्यामि सर्वे चान्धकवृष्णयः। दाशार्हाः परिवारास्ते दाशार्णाश्च विशांपते
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः । जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः
पुरोगमाश्च ते सन्तु द्रविडाः सहकुन्तलैः। आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा