न चेत्करिष्यसि वचः सुहृदामरिकर्शन । तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम्
भीमस्य च महानादं नदतः शुष्मिणो रणे। श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निःश्वनम् । यद्येतदपसव्यं ते वचो मम भविष्यति
एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः। संहत्य च भ्रुवोर्मध्यं न किञ्चिद्व्याजहार ह
तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात् । पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ
शुश्रूषमनसूयं च ब्रह्मण्यं सत्यवादिनम् । प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम्
अश्वत्थाम्नि यथा पुत्रे भूयो मम धनञ्जये। बहुमानः परो राजन्सन्नतिश्च कपिध्वजे
तं चेत्पुत्रात्प्रियतमं प्रतियोत्स्ये धनञ्जयम् । क्षात्रं धर्ममनुष्ठाय धिगस्तु क्षत्रिजीविकाम्
यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः । मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः
मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः। न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः
वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति। चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति
मिथ्योपचरिता ह्येते वर्तमान ह्यनुप्रिये । अहितत्वाय कल्पन्ते दोषा भरतसत्तम
त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च । वासुदेवेन च तथा श्रेयो नैवाभिमन्यसे
अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि। सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे
वाससैव यथा हि त्वं प्रावृण्वानोऽभिमन्यसे। स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम्
द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम्। वनस्थमपि राज्यस्थः पाण्डवं को विजेष्यति
निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः । तमैलविलमासाद्य धर्मराजो व्यराजत
कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च । स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः
दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः । आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ
त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च । विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि
द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी । तपोघोरव्रता देवी कथं जेष्यसि पाण्डवम्
मन्त्री जनार्दनो यस्य भ्राता यस्य धनञ्जयः। सर्वशस्त्रभृतां श्रेष्ठः कथं जेष्यसि पाण्डवम्
सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः। तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम्
पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता। सुहृदा मञ्जमानेषु सुहृत्सु व्यसनार्णवे
अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये । मा गमः सतुतामात्यःसमित्रश्च यमक्षयम्
राजपुत्रैः परिवृतस्तथा भृत्यैश्च सत्तम। उपारोप्य रथे कर्णं निर्यातो मधुसूदनः
किमब्रवीद्रथोपस्थे राधेयं परवीरहा । कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान्
उद्यन्मेघस्वनः काले यत्कृष्णः कर्णमब्रवीत्। मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सर्वशः
आनुपूर्व्येण वाक्यानि तीक्ष्णानि च मृदूनि च। प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च
हृदयग्रहणीयानि राधेयं मधुसूदनः । यान्यब्रवीदमेयात्मा तानि मे श्रृणु भारत
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः। तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया