नकुलं सहदेवं च बलवीर्यसमन्वितौ । सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः
प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता । विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः
दानवा घोरकर्माणो निवातकवचा युधि। रौद्रमस्त्रं समादाय दग्धा वानरकेतुना
कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी। मोक्षितो घोषयात्रायां पर्याप्तं तन्निदर्शनम्
प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः । रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम्
ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्कविः । तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम्
दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः । प्रशान्तभ्रुकुटिः श्रीमान्कृता शान्तिःकुलस्य नः
तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् । अभिवादय राजानं यथापूर्वमरिन्दम
अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः । प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः
सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः । परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः
कम्बुग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः । अभिवादयतां पार्थः कुन्तीपुत्रो धनञ्जयः
आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि । तौ च त्वां गुरुवत्प्रोम्णा पूजया प्रत्युदीयताम्
मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः । संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव
प्रशाधि पृथिवीं कृत्स्नां ततस्त्वं भ्रातृभिः सह । समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम्
अलं युद्धेन राजेन्द्र सुहृदां शृणु वारणम् । ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते
ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः। उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः
विशेषत इहास्माकं निमित्तानि विनाशने। उल्काभिर्हि प्रदीप्ताभिर्बाध्यते पृतना तव
वाहनान्यप्रहृष्टानि रुदन्तीव विशांपते। गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः
नगरं न यथापूर्वं तथा राजनिवेशनम् । शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशं
कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् । त्वय्यायत्तो महाबाहो शमो व्यायाम एव च
न चेत्करिष्यसि वचः सुहृदामरिकर्शन । तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम्
भीमस्य च महानादं नदतः शुष्मिणो रणे। श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निःश्वनम् । यद्येतदपसव्यं ते वचो मम भविष्यति
एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः। संहत्य च भ्रुवोर्मध्यं न किञ्चिद्व्याजहार ह
तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात् । पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ
शुश्रूषमनसूयं च ब्रह्मण्यं सत्यवादिनम् । प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम्
अश्वत्थाम्नि यथा पुत्रे भूयो मम धनञ्जये। बहुमानः परो राजन्सन्नतिश्च कपिध्वजे
तं चेत्पुत्रात्प्रियतमं प्रतियोत्स्ये धनञ्जयम् । क्षात्रं धर्ममनुष्ठाय धिगस्तु क्षत्रिजीविकाम्
यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः । मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः
मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः। न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः
वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति। चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति