यत्र सा बृहती श्यामा सभायां रुदती तदा। अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं महत्
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा। नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती
तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् । अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर
विदितं हि तवात्यन्तं क्रूद्धाविव यमान्तकौ । भीमार्जुनौ नयेतां हि देवानपि परां गतिम्
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता। दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत
पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः । पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह
मां वै कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन । अरिष्टं गच्छ पन्थानं पुत्रान्मे प्रतिपालय
अभिवाद्याथ तां कृष्णः कृत्वा चापि प्रदक्षिणम्। निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः
ततो विसर्जयामास भीष्मादीन्कुरुपुङ्गवान्। आरोप्याथ रथे कर्णं प्रायात्सात्यकिना सह
ततः प्रयाते दाशार्हे कुरवः सङ्गता मिथः । जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम्
प्रमूढा पृथिवी सर्वा मृत्युपाशवशीकृता । दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन्
ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः । मन्त्रयामास च तदा कर्णेन सुचिरं सह
विसर्जयित्वा राधेयं सर्वयादवनन्दनः। ततो जवेन महता तूर्णमश्वानचोदयत्
ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः । हया जग्मुर्महावेगा मनोमारुतरंहसः
ते व्यतीत्य महाध्वानं क्षिप्रं श्येना इवाशुगाः । उच्चैर्जग्मुरुपप्लाव्यं शार्ङ्गधन्वानमावहन्
कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ। दुर्योधनमिदं वाक्यमूचतुः शासनातिगम्
श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ । वाक्यमर्थवदत्युग्रमुक्तं धर्म्यमनुत्तमम्
तत्करिष्यन्ति कौन्तेया वासुदेवस्य संमतम् । न हि ते जातु शाम्येरन्नृते राज्येन कौरव
क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा। सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव
कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्चयम् । गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च
नकुलं सहदेवं च बलवीर्यसमन्वितौ । सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः
प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता । विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः
दानवा घोरकर्माणो निवातकवचा युधि। रौद्रमस्त्रं समादाय दग्धा वानरकेतुना
कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी। मोक्षितो घोषयात्रायां पर्याप्तं तन्निदर्शनम्
प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः । रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम्
ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्कविः । तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम्
दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः । प्रशान्तभ्रुकुटिः श्रीमान्कृता शान्तिःकुलस्य नः
तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् । अभिवादय राजानं यथापूर्वमरिन्दम
अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः । प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः
सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः । परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः