सन्ति नैकशता भूयः सुहृदस्तव सञ्जय । सुखदुःखसहा वीर संग्रामादनिवर्तिनः
तादृशा हि सहाया वै पुरुषस्य बुभूषतः। इष्टं जिहीर्षतः किंचित्सचिवाः शत्रुकर्शन
तस्यास्त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः । तमस्त्वपागमत्तस्य सुचित्रार्थपदाक्षरम्
उदके नौरियं धार्या वक्तव्यं प्रवणे मया। यस्य मे भवती नेत्री भविष्यद्भूतिदर्शिनी
अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् । किञ्चित्किञ्चित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः
अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात्। उद्यच्छाम्येष शत्रूणां नियमार्थं जायय च
सदश्च इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः। तच्चकार तथा सर्वं यथावदनुशासनम्
इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् । राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम्
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा। महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति
इदं पुंसवनं चैव वीराजननमेव च। अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते
विद्याशूरं तपःशूरं दानशूरं तपस्विनम् । ब्राह्मया श्रिया दीप्यमानं साधुवादे च संमतम्
अर्चिष्मन्तं बलोपेतं महाभागं महारथम् । धृतिमन्तमनाधृष्यं जेतारमपराजितम्
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् । ईदृशं क्षत्रिया सूते वीरं सत्यपराक्रमम्
अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके। उपोपविष्टा नारीभिराश्रमे परिवारिता
अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा । सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः
एष जेष्यति सङ्ग्रामे कुरून्सर्वान्समागतान्। भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत्। हत्वा कुरूंश्च सङ्ग्रामे वासुदेवसहायवान्
पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति । भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति
स सत्यसन्धो बीभत्सुः सव्यसाची यथाच्युत । तथा त्वमेव जानासि बलवन्तं दुरासदम्
तथा तदस्तु दाशार्ह यथा वागभ्यभाषत । धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति
त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि । नाहं तदभ्यसूयामि यथा वागभ्यभाषत
नमो धर्माय महते धर्मो धारयति प्रजाः । एतद्धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः। न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः
विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति। यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः
तावदेव महापबाहुर्निशासु न सुखं लभेत्। सर्वधऱ्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः । व्रूया माधव कल्याणीं कृष्ण कृष्णां यशस्विनीम्
युक्तमेतन्महाभागे कुले जाते यशस्विनि । यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः
माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ । विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः । मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम
यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनाम्। पाञ्चाली परुषाण्युक्तका को नु तत्क्षन्तुमर्हति
न राज्यहरणं दुःखं द्यूते चापि पराजयः। प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम्