अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि। चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते
अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान्। अहं पश्यामि विजयं कृच्छ्रभाविनमेव ते
अकोशस्यासहायस्य कुतः सिद्धिर्जयो मम। इत्यवस्थां विदित्वैतामात्मनात्मनि दारुणाम्
राज्याद्भावो निवृत्तो मे त्रिदिवादिव दृष्कृतः । ईदृशं भवती कंचिदुपायमनुपश्यति
तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते। करिष्यामि हि तत्सर्वं यथावदनुशासनम्
पुत्र नात्मावमन्तव्यः पूर्वाभिरसमृद्धिभिः । अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे। अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः
सर्वेषां कर्मणां तात फले नित्यमनित्यता। अनित्यमिति जानन्तो न भवन्ति भवन्ति च
अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते। ऐकगुण्यमनीहायामभावः कर्मणां फलम्
अथ द्वैगुण्यमीहायां फलं भवति वा नवा । यस्य प्रागेव विदिता सर्वार्थानामनित्यता
नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज । उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु
भविष्यतीत्येव मनः कृत्वा सततमव्यथैः । मङ्गलानि पुरस्कृत्य ब्राह्मणांश्चेश्वरैः सह
प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक । अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः
निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च। अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम्
पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि। क्रुद्धान्लुब्धान्परिक्षीणानवलिप्तान्विमानितान्
स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय। एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान्। महावेग इवोद्धूतो मातरिश्वा बलाहकान्
तेषामग्रप्रदायी स्याः कल्पोत्थायी प्रियंवदः । ते त्वां प्रियं करिष्यन्ति पुरोधास्यन्ति च ध्रुवम्
यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम्। तदैवास्मादुद्विजेत सर्पाद्वेश्मगतादिव
तं विदित्वा पराक्रान्तं वशे न कुरुते यदि। निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति
निर्वादादास्पदं लब्धा धनवृद्धिर्भविष्यति। धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च
स्खलितार्थं पुनस्तानि सन्त्यजन्ति च बान्धवाः । नह्यस्मिन्नाश्रयन्ते च जुगुप्सन्ते च तादृशम्
शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति। स न संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति
नैव राज्ञा दरः कार्यो जातु कस्यांचिदापदि। अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत्
दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते। राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतीः
शत्रुनेके प्रपद्यन्ते प्रजहत्यपरे पुनः । अन्ये तु प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः
य एवात्यन्तसुहृदस्त एनं पर्युपासते। अशक्तयः स्वस्तिकामा बद्धवत्सा इला इव
शोचन्तमनुशोचन्ति पतितानिव बान्धवान् । अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः
ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः । मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः
प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव। विदधत्या समाश्वासमुक्तं तेजोविवृद्धये
यदेतत्संविजानासि यदि सम्यग्ब्रवीम्यहम्। कृत्वा सौम्यमिवात्मानं जायायोत्तिष्ठ सञ्जय
अस्ति नः कोशनिचयो महानविदितस्तव। तमहं वेद नान्यस्तमुपसंपादयामि ते