अस्मदीयैश्च शोचिद्भिर्नदद्भिश्च परैर्वृतम् । अपि त्वां नानुपश्येयं दीनाद्दीनमिवास्थितम्
हृप्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा। मा च सैन्धवकन्यानामवसन्नो वशं गमः
युवा रूपेण संपन्नो विद्ययाभिजनेन च । यत्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः
अधुर्यवच्च वोढव्ये मन्ये मरणमेव तत्। यदि त्वामनुपश्यामि परस्य प्रियवादिनम्
पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे। नास्मिञ्जातु कुले जातो गच्छेद्योन्यस्य पृष्ठतः
न त्वं परस्यानुचरस्तात जीवितुमर्हसि । अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम्
पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि। शाश्वतं चाव्ययं चैव प्रजापतिविनिर्मितम्
यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् । भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित्
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् । अप्यपर्वणि भज्येत न नमेतेह कस्यचित्
मातङ्गो मत्त इव च परीयात्स महामनाः । ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च सञ्जय
नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः। ससहायोऽसहायो वा यावज्जीवं तथा भवेत्
कृष्णायसस्येव च ते संहत्य हृदयं कृतम्। मम मातस्त्वकरुणे वीरप्रज्ञे ह्यमर्षणे
अहो क्षत्रसमाचारो यत्र मामितरं यथा। नियोजयसि युद्धाय परमातेव मां तथा
ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् । किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया
किमाभरणकृत्येन किं भोगैर्जीवितेन वा। मयि वा सङ्गरहते प्रियपुत्रे विशेषतः
सर्वावस्था हि विदुषां तात धर्मार्थकारणात् । तावेवाभिसमीक्ष्याहं सञ्जय त्वामचूजुदम्
स समीक्ष्य क्रमोपेतो मुख्यः कालोऽयमागतः। अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे
असंभावितरूपस्त्वमानृशंस्यं करिष्यसि । तं त्वामयशसा स्पृष्टं न ब्रूयां यदि सञ्जय
खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् । सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम्
अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः । तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः
धर्मार्थगुणयुक्तेन नेतरेण कथञ्चन। दैवमानुषयुक्तेन सद्भिराचरितेन च
यो ह्येवमविनीतेन रमते पुत्रनप्तृणा। अनुत्थानवता चापि दुर्विनीतेन दुर्धिया
रमते यस्तु पुत्रेण मोघं तस्य प्रजाफलम्। अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च
सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः । युद्धाय क्षत्रियः सृष्टः सञ्जयेह जयाय च । `क्रूराय कर्मणे नित्यं प्रजानां परिपालने
जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् । न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम्। यदमित्रान्वशे कृत्वा क्षत्रियः सुखमेधते
मन्युना दह्यमानेह पुरुषेण मनस्विना । निकृतेनेह बहुशः शत्रून्प्रति जिगीषया
आत्मानं वा परित्यज्य शत्रुं वा विनिपात्य च। प्राप्यते नेह शान्तिर्हि नित्यमेव तु सञ्जय । अतोन्येन प्रकारेण शान्तिरस्य कुतो भवेत्
इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति। यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम्
प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् । ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम्
नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः । कारुण्यमेव पश्य त्वं भूत्वेह जडमूकवत्