अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि। निहीनसेवितं मार्गं गमिष्यस्यचिरादिव
यो हि तेजो यथाशक्ति न कर्शयति विक्रमात्। क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः
अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च। नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम्
सन्ति वै सिन्धुराजस्य सन्तुष्टा न तथा जनाः। दौर्बल्यादासते मूढा व्यसतौघपतीक्षिणः
सहायोपचितिं कृत्वा व्यवसाय्य ततस्ततः । अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम्
तैः कृत्वा सह संघातं गिरिदुर्गालयं चर । काले व्यसनमाकाङ्क्षन्नैवायमजरामरः
सञ्जयो नामतश्च त्वं न च पश्यामि तत्त्वयि । अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः
सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत्। अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति
तस्य स्मरन्ती वचनमाशंसे विजयं तव। तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनःपुनः
यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे । तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः
समृद्धिरसमृद्धिर्वा पूर्वेषां मम सञ्जय । एवं विद्वान्युद्धमना भव मा प्रत्युपाहरः
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत्। यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते
पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् । दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत्
अहं महाकुले जाता ह्रदाद्ध्रदमिवागता। ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता
महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् । पुरा हृष्टः सुहृद्वर्गो मामपश्यत्सुहृद्गताम्
यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बलाम् । न तदा जीवितेनार्थो भविता तव सञ्जय
दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान्। अवृत्त्याऽस्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते
यदि कृत्यं न पश्यामि तवाद्याहं यथा पुरा । श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे
नेति चेद्ब्राह्मणं ब्रूयां दीर्येत हृदयं मम। न ह्यद न च मे भर्ता नेति ब्राह्मणमुक्तवान्
वयमाश्रयणीयाः स्म न श्रोतारः परस्य च। अन्यमासाद्य जीवन्ती परित्यक्ष्यामि जीवितम्
अपारे भव नः पारमप्लवे भव नः प्लवः । कुरुष्व स्थानमस्थाने मृतान्सञ्जीवयस्व नः
सर्वे ते शत्रवः शक्या न चेञ्जीवितुमर्हसि । अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे
निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम्। एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम्
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत। माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत्
नाम विश्राव्य वै शङ्ख्ये शत्रूनाहूय दंशितान्। सेनाग्रं चापि विद्राव्य हत्वा वा पुरुषं वरम्
यदैव लभते वीरः सुयुद्धेन महद्यशः । तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च
त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः । अवशास्तर्पयन्ति स्म सर्वकामसमृद्धिभिः
राज्यं चाप्युग्रवि भ्रंशं संशयो जीवितस्य वा। न लब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः
स्वर्गद्वारोपमं राज्यमथवाप्यमृतोपमम् । रुद्धमेकायनं मत्वा पतोल्मुक इवारिषु
जहि शत्रून्रणे राजन्स्वधर्मनुपालय । मा त्वा दृशं सुकृपणं शत्रूणां भयवर्धनम्