नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम्। यमेनमभिनन्देयुरमित्राः पुरुषं कृशम्
लोकस्य समवज्ञातं निहीनासनवाससम् । अहोलाभकरं हीनमल्पजीवनमल्पकम्
नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते। अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः
सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिंचनाः । अवल्गुकारिण सत्सु कुलवंशस्य नाशनम्
कलिं पुत्रप्रवादेन सञ्जय त्वामजीजनम् । निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम्
मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम्। मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान्
ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम्। एतावानेव पुरुषो यदमर्षी यदक्षमी
क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् । संतोषो वै श्रियं हन्ति तथाऽनुक्रोश एव च
अनुत्थानभये चोभे निरीहो नाश्रुते महत्। एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना
आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् । परं विषहते यस्मात्तस्मात्पुरुष उच्यते
तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति। शूरस्योर्जितसत्वस्य सिंहविक्रान्तचारिणः
दिष्टभावं गतस्यापि विषये मोदते प्रजा । य आत्मनः प्रियमुखे हित्वा मृगयते श्रियम्
अमात्यानामथो हर्षमादधात्यचिरेण सः
किं नु मे मामपश्यन्त्याः पृथिव्या अपि सर्वया। किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा
पैरर्विहन्यमानस्य जीवितेनापि किं फलम्।' निर्मन्युकानां ये लोका द्विषन्तस्तानवाप्नुयुः । ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः
भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम्। कृपणानामसत्वानां मा वृत्तिमनुवर्तिथाः
अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा । पर्यन्यमिव भूतानि देवा इव शतक्रतुम्
यमाजीवन्ति पुरुषं सर्वभूतानि संजय। पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत्
यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम्। त्रिदशा इव शक्रस्य साधु तस्येह जीवितम्
स्वबाहुबलमाश्रित्य योहि जीवति मानवः । स लोके लभते कीर्तिं परत्र च शुभां गतिम्
अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि। निहीनसेवितं मार्गं गमिष्यस्यचिरादिव
यो हि तेजो यथाशक्ति न कर्शयति विक्रमात्। क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः
अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च। नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम्
सन्ति वै सिन्धुराजस्य सन्तुष्टा न तथा जनाः। दौर्बल्यादासते मूढा व्यसतौघपतीक्षिणः
सहायोपचितिं कृत्वा व्यवसाय्य ततस्ततः । अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम्
तैः कृत्वा सह संघातं गिरिदुर्गालयं चर । काले व्यसनमाकाङ्क्षन्नैवायमजरामरः
सञ्जयो नामतश्च त्वं न च पश्यामि तत्त्वयि । अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः
सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत्। अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति
तस्य स्मरन्ती वचनमाशंसे विजयं तव। तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनःपुनः
यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे । तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः