ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत्। वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान्
भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते । क्षत्रियोऽसि क्षतात्राता बाहुवीर्योपजीविता
पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर । साम्ना भेदेन दानेन दण्डेनाथ नयेन वा
इतो दुःखतरं किं नु यदहं दीनबान्धवा। परपिण्डमुदीक्षे वै त्वां सूत्वा मित्रनन्दन
युध्यस्व राजधर्मेण मा निमञ्जीः पितामहान् । मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिं
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । विदुलायाश्च संवादं पुत्रस्य च परन्तप
ततः श्रेयश्च भूयश्च यथावद्वक्तुमर्हसि । यशस्विनी मन्युमती कुले जाता विभावरी
क्षत्रधर्मरता दान्ता विदुला दीर्घदर्शिनी । विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता
विदुला नाम राजन्या जगर्हे पुत्रमौरसम् । निर्जितं सिन्धुराजेन शयानं दीनचेतसम्
अनन्दन मया जात द्विषतां हर्षवर्धन । न मया त्वं न पित्रा च जातः क्वाभ्यागतोह्यसि
निर्मन्युश्चाप्यसङ्ख्येयः पुरुषः क्लीबसाधनः । यावज्जीवं निराशोऽसि कल्याणाय धुरं वह
माऽऽत्मानमवमन्यस्व मैनमल्पेन बीभरः । मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंहर
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः। अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः
सुपूरा वै कुनदिका सुपूरो मुषिकाञ्जलिः । सुसंतोषः कापुरुषः स्वल्पकेनैव तुष्यति
अप्यहेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज । अपि वा संशयं प्राप्य जीवितेऽपि पराक्रमेः
अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् । विवदन्वाऽथवा तूष्णीं व्योम्नीवापरिशङ्कितः
त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा। उत्तिष्ठ हे कापुरुष मा स्वाप्सीः शत्रुनिर्जितः
माऽस्तं गमस्त्वं कृपणो वि श्रूयस्व स्वकर्मणा । मा मध्ये मा जघन्ये त्वं माऽधो भूस्तिष्ठ गर्जितः
अलातं तिन्दुकस्येव मुहूर्तमपि हि ज्वल । मा तुषाग्निरिवानर्चिर्धूमायस्व जिजीविषुः
मुहूर्तं ज्वलितं श्रेयो न च धूमायितं चिरम् । मा ह स्म कस्यचिद्गेहे जनी राज्ञः स्वरीमृदुः
कृत्वा मानुष्यकं कर्म सृत्वाऽऽजिं यावदुत्तमम् । धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते
अलब्ध्वा यदि वा लब्ध्वा नानुशोचति पण्डितः । आनन्तर्यं चारभते न प्राणानां धनायते
उद्भावयस्वं वीर्यं वा तां वा गच्छ ध्रुवां गतिम् । धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि
इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता । विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि
शत्रुर्निमञ्जता ग्राह्यो जङ्घायां प्रपतिष्यता। विपरिच्छिन्नमूलोऽपि न विषीदेत्कथंचन
उद्यम्य धुरमुत्कर्षेदाजानेयकतं स्मरन्। कुरु सत्वं च मानं च विद्धि पौरुषमात्मनः
उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि। यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम्
राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् । दाने तपसि सत्ये च यस्य नोच्चरितं यशः
विद्यायामर्थलाभे वा मातुरुच्चार एव सः। श्रुतेन तपसा वाऽपि श्रिया वा विक्रमेण वा
जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् । न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि