ततो वसति दुष्कर्मा नरके शाश्वतीः समाः । राजदोषेण हि जगत्स्पृश्यते जगतः स च
राजधर्मानवेक्षस्व पितृपैतामहोचितान्। नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि
न हि वैक्लब्यसंसृष्ट आनृशंस्ये व्यवस्थितः । प्रजापालनसंभूतं फलं किंचन लब्धवान्
न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः । प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया
यज्ञो दानं तपः शौर्यं प्रज्ञा सन्तानमेव च । माहात्म्यं बलमोजश्च नित्यमाशंसितं मया
नित्यं स्वाहा स्वधा नित्यं दद्युर्मानुषदेवताः । दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च। दानमध्ययनं यज्ञः प्रजानां परिपालनम्
एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः । ते तु वैद्याः कुले जाता अवृत्त्या तात पीडिताः
यत्र दानपतिं शूरं क्षुधिताः पृथिवीचराः । प्राप्य तुष्टाः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः
दानेनान्यं बलेनान्यं तथा सूनृतयाऽपरम्। सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः
ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत्। वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान्
भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते । क्षत्रियोऽसि क्षतात्राता बाहुवीर्योपजीविता
पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर । साम्ना भेदेन दानेन दण्डेनाथ नयेन वा
इतो दुःखतरं किं नु यदहं दीनबान्धवा। परपिण्डमुदीक्षे वै त्वां सूत्वा मित्रनन्दन
युध्यस्व राजधर्मेण मा निमञ्जीः पितामहान् । मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिं
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । विदुलायाश्च संवादं पुत्रस्य च परन्तप
ततः श्रेयश्च भूयश्च यथावद्वक्तुमर्हसि । यशस्विनी मन्युमती कुले जाता विभावरी
क्षत्रधर्मरता दान्ता विदुला दीर्घदर्शिनी । विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता
विदुला नाम राजन्या जगर्हे पुत्रमौरसम् । निर्जितं सिन्धुराजेन शयानं दीनचेतसम्
अनन्दन मया जात द्विषतां हर्षवर्धन । न मया त्वं न पित्रा च जातः क्वाभ्यागतोह्यसि
निर्मन्युश्चाप्यसङ्ख्येयः पुरुषः क्लीबसाधनः । यावज्जीवं निराशोऽसि कल्याणाय धुरं वह
माऽऽत्मानमवमन्यस्व मैनमल्पेन बीभरः । मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंहर
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः। अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः
सुपूरा वै कुनदिका सुपूरो मुषिकाञ्जलिः । सुसंतोषः कापुरुषः स्वल्पकेनैव तुष्यति
अप्यहेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज । अपि वा संशयं प्राप्य जीवितेऽपि पराक्रमेः
अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् । विवदन्वाऽथवा तूष्णीं व्योम्नीवापरिशङ्कितः
त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा। उत्तिष्ठ हे कापुरुष मा स्वाप्सीः शत्रुनिर्जितः
माऽस्तं गमस्त्वं कृपणो वि श्रूयस्व स्वकर्मणा । मा मध्ये मा जघन्ये त्वं माऽधो भूस्तिष्ठ गर्जितः
अलातं तिन्दुकस्येव मुहूर्तमपि हि ज्वल । मा तुषाग्निरिवानर्चिर्धूमायस्व जिजीविषुः
मुहूर्तं ज्वलितं श्रेयो न च धूमायितं चिरम् । मा ह स्म कस्यचिद्गेहे जनी राज्ञः स्वरीमृदुः