विषमं पर्वतस्रस्तै रश्मभिश्च समावृतम्। निर्जलं निर्मनुष्यं च बहुयोजनमायतम्
मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः। तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः
लोडयामास दुष्यन्तः सूदयन्विविधान्मृगान्। बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून्
पातयामास दुष्यन्तो निर्बिभेद च सायकैः। दूरस्थान्सायकैः कांश्चिदभिनत्स नराधिपः
अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत। कांश्चिदेणान्समाजघ्ने शक्त्या शक्तिमतां वरः
गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः। तोमरैरसिभिश्चापि गदामुसलकम्पनैः
चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान्। राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः
लोड्यमानं महारण्यं तत्यजुः स्म मृगाधिपाः। तत्र विद्रुतयूथानि हतयूथपतीनि च
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः। शुष्काश्चापि नदीर्गत्वा जलनैराश्यकर्शिताः
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः। क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि
केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः। केचिदग्निमथोत्पाद्य संसाध्य च वनेचराः
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा। तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः
संकोच्याग्रकरान्भीताः प्राद्रवन्ति स्म वेगिताः। शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु
वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून्। तद्वनं बलमेघेन शरधारेण संवृतम्। व्यरोचत मृगाकीर्णं राज्ञा हतमृगाधिपम्
ततो मृगसहस्राणि हत्वा सबलवाहनः। तत्र मेघघनप्रख्यं सिद्धचारणसेवितम्
वनमालोकयामास नगराद्योजनद्वये। मृगाननुचरन्वन्याञ्श्रमेण परिपीडितः
मृगाननुचरन्राजा वेगेनाश्वानचोदयत्। राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह
एक एवोत्तमबलः क्षुत्पिपासाश्रमान्वितः। स वनस्यान्तमासाद्य महच्छून्यं समासदत्
तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम्। मनःप्रह्लादजननं दृष्टिकान्तमतीव च
सीतमारुतसंयुक्तं जगामान्यन्महद्वनम्। पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम्
विपुलं मधुरारावैर्नादितं विहगैस्तथा। पुंस्कोकिलनिनादैश्च झिल्लीकगणनादितम्
प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम्। षट्पदाघूर्णिततलं लक्ष्म्या परमया युतम्
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी। षट्पदैर्नाप्यपाकीर्णस्तस्मिन्वै काननेऽभवत्
विगहैर्नादितं पुष्पैरलङ्कृतमतीव च। सर्वर्तुकुसुमैर्वृक्षैः सुखच्छायैः समावृतम्
मनोरमं सहेष्वासो विवेश वनमुत्तमम्। मारुता कलितास्तत्र द्रुमाः कुसुमशाखिनः
पुष्पवृष्टिं विचित्रां तु व्यसजंस्ते पुनः पुनः। दिवस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वनैः
विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः। तेषां तत्र प्रवालेषु पुष्पभारावनामिषु
रुवन्ति रावान्मधुरान्षट्पदा मधुलिप्सवः। तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान्
लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान्। संपश्यन्सुमहातेजा बभूव मुदितस्तदा
परस्पराश्लिष्टशाखैः पादपैः कुसुमान्वितैः। अशोभत वनं तत्तु महेन्द्रध्वजसन्निभैः