उपस्थितरथं शौरिं प्रयास्यन्तमरिन्दमम् । धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत
यावद्बलं मे पुत्रेषु पश्यतस्ते जनार्दन । प्रत्यक्षं ते न ते किंचित्परोक्षं शत्रुकर्शन
कुरूणां शममिच्छन्तं यतमानं च केशव । विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि
न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव । ज्ञातमेव हितं वाक्यं यन्मयोक्तः सुयोधनः
जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः । शमे प्रयतमानं मां सर्वयत्नेन माधव
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः। द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम्
प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि। यथा चाशिष्टवन्मन्दो रोषादद्य समुत्थितः
वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः । आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम्
आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभ । अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः
भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः। अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः
ततो रथेन शुभ्रेण महता किङ्किणीकिना । कुरूणां पश्यतां द्रष्टुं स्वसारं स पितुर्ययौ
प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च। आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि
उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम्। ऋषिभिश्चैव च मया न चासौ तद्गृहीतवान्
कालपक्वमिदं सर्वं सुयोधनवशानुगम्। ` सर्वक्षत्रं क्षणेनैव दह्यते पार्थवह्निना ।' आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति
किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया । तद्ब्रूहि त्वं महाप्रज्ञे शुश्रूषे वचनं तव
ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् । भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः । अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते
अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयंभुवा । बाहुभ्यां क्षत्रियाः सृष्टा बाहुवीर्योपजीविनः
क्रूराय कर्मणे नित्यं प्रजानां परिपालने। श्रृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया
मुचुकुन्दस्य राजर्षेरददत्पृथिवीमिमाम्। पुरा वैश्रवणः प्रीतो न चासौ तद्गृहीतवान्
बाहुवीर्यार्जितं राज्यमश्रीयामिति कामये। ततो वैश्रवणः प्रीतो विस्मितः समपद्यत
मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुन्धराम् । बाहुवीर्यार्जितां सम्यक् क्षत्रधर्ममनुव्रतः
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः । चतुर्थं तस्य धर्मस्य राजा विन्देन भारत
राजा चरति चेद्धर्मं देवत्वायैव कल्पते। स चेदधर्मं चरति नरकायैव गच्छति
दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति। प्रयुक्तास्वामिना सम्यगधर्मेभ्यो नियच्छति
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते। तदा कृतयुं नाम कालः श्रेष्ठः प्रवर्तते
कालो वा कारणं राज्ञो राजा वा कालकारणम् । इति ते संशयो मा भूद्राजा कालस्य कारणम्
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च। युगस्य च चतुर्थस्य राजा भवति कारणम्
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्रुते । त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्रुते
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्रुते । कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्रुते