अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः । शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च। नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः
नेत्राभ्यां नासिकाभ्यां च श्रोत्राभ्यां च समन्ततः । प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः
रोमकूपेषु च तथा सूर्यस्येव मरीचयः । `सहस्रचरणः श्रीमाञ्शतबाहुः सहस्रदृक्
तस्य वै नागलोकश्च गुल्फाधो ददृशे तदा। चन्द्रसूर्यौ तथा नेत्रे ग्रहः वै सर्वतः स्थिताः
ऊर्ध्वलोकाश्च सर्वेऽपि कुक्षौ तस्य व्यवस्थिताः । सरितः सागराश्चैव स्वेदस्तस्य महात्मनः
अस्थीनि पर्वताः सर्वे वृक्षा रोमाणि तस्य हि। निमेषणं रात्र्यहनी जिह्वायां शारदा तथा
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः । न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः
ऋत द्रोणं च भीष्मं च विदुरं च महामतिम् । संजयं धृतराष्ट्रं च ऋषींश्चैव तपोधनान्
प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः
धृतराष्ट्राय प्रददौ भगवान्दिव्यचक्षुषी । ददर्श परमं रूपं धृतराष्ट्रोऽम्बिकासुतः
ततो देवाः सगन्धर्वाः किन्नराश्च महोरगाः । ऋषयश्च महाभागा लोकपालैः समन्विताः । प्रणम्य शिरसा देवं तुष्टुवुः प्राञ्जलिस्थिताः
क्रोधं प्रभो संहर संहर स्वं रूपं च यद्दर्शितमात्मसंस्थम् । यावत्त्विमे देवगणैः समेता लोकाः समस्ता भुवि नाशमीयुः
त्वं च कर्ता विकर्ता च त्वमेव परिरक्षसे। त्वया व्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम्
कियन्मात्रा महीपालाः किंवीर्याः किंपराक्रमाः । तेषामर्थे महाबाहो दिव्यं रूपं प्रदर्शिवान्। एवमुच्चारिता वाचः सह देवार्विभुं तदा
तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले। देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च
त्वमेव पुण्डरीकाक्ष सर्वस्य जगतो हितः। तस्मान्मे यादवश्रेष्ठ प्रसादं कर्तुमर्हसि
भगवन्मम नेत्राभ्यामन्तर्धानं वृणे पुनः । भवन्तं दृष्टवानस्मि नान्यं द्रष्टुमिहोत्सहे
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः । अदृश्यमाने नेत्रे द्वे भवेतां कुरुनन्दन
तत्राद्भुतं महाराज धृतराष्ट्रश्च चक्षुषी । लब्धवान्वासुदेवाच्च विश्वरूपदिदृक्षया
लब्धचक्षुषमासीनं धृतराष्ट्रं नराधिपाः । विस्मिता ऋषिभिः सार्धं तुष्टुवुर्मधुसूदनम्
चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे । विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ
ततः स पुरुषव्याघ्रः सञ्जहार वपुः स्वकम् । तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिन्दमः
ततः सात्यकिमादाय पाणौ विदुरमेव च । ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः
ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः । तस्मिन्कोलाहले वृत्ते तदद्भुतमिवाभवत्
तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः । अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतम्
अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् । निश्चक्राम ततः शौरिः सधूम इव पावकः
ततो रथेन शुभ्रेण महता किङ्किणीकिना । हेमजालविचित्रेण लघुना मेघनादिना
सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना । शैब्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः
तथैव रथमास्थाय कृतवर्मा महारथः । वृष्णीनां संमतो वीरो हार्दिक्यः समदृश्यत