प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः । ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात्
अनेकयुगवर्षायुर्निहत्य नरकं मृधे । नीत्वा कन्यासहस्राणि उपयेमे यथाविधि
निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः । ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात्
अनेन हि हता बाल्ये पूतना शिशुना तदा। गोवर्धनो धारितश्च गवार्थे भरतर्षभ
अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः। अश्वराजश्च निहतः कंसश्चारिष्टमाचरन्
जरासन्धश्च वक्रश्च शिशुपालश्च वीर्यवान् । बाणाश्च निहतः सङ्ख्ये राजानश्च निषूदिताः
वरुणो निर्जितो राजा पावकश्चामितौजसा । पारिजातं च हरता जितः साक्षाच्छचीपतिः
एकार्णवे च स्वपता निहतौ मधुकैटभौ । जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः
अयं कर्ता न क्रियते कारणं चापि पौरुषे । यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः
तं न बुध्यसि गोविन्द घोरविक्रममच्युतम्। आशीविषमिव क्रूद्धं तेजोराशिमनिन्दितम्
प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम्। पतङ्गोऽग्निमिवासाद्य सामात्यो नभविष्यसि
विदुरेणैवमुक्तस्तु केशवः शत्रुपूगहा । दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान्
एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन। परिभूय सुदुर्बुद्धे ग्रहीतुं मां चिकीर्षसि
इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः । इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः
एवमुक्त्वा जाहासोच्चैः केशवः परवीरहा । तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः । `युगपच्च विनिष्पेतुः साक्षात्सर्वास्तु देवताः
अङ्गुष्ठमात्रास्त्रिदशा बभूवुः पावकार्चिषः । तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत्
लोकपाला भुजेष्वासन्नग्निरास्यादजायत। आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च। बभूवुश्चैव यक्षाश्च गन्धर्वोरगराक्षसाः
प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जयौ। दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः। अन्धका वृष्णयश्चैव प्रद्युम्नपरमुखास्ततः
अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः । शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च। नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः
नेत्राभ्यां नासिकाभ्यां च श्रोत्राभ्यां च समन्ततः । प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः
रोमकूपेषु च तथा सूर्यस्येव मरीचयः । `सहस्रचरणः श्रीमाञ्शतबाहुः सहस्रदृक्
तस्य वै नागलोकश्च गुल्फाधो ददृशे तदा। चन्द्रसूर्यौ तथा नेत्रे ग्रहः वै सर्वतः स्थिताः
ऊर्ध्वलोकाश्च सर्वेऽपि कुक्षौ तस्य व्यवस्थिताः । सरितः सागराश्चैव स्वेदस्तस्य महात्मनः
अस्थीनि पर्वताः सर्वे वृक्षा रोमाणि तस्य हि। निमेषणं रात्र्यहनी जिह्वायां शारदा तथा
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः । न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः
ऋत द्रोणं च भीष्मं च विदुरं च महामतिम् । संजयं धृतराष्ट्रं च ऋषींश्चैव तपोधनान्
प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः