अथ दुरोयधनं राजा धृतराष्ट्रोऽभ्यभाषत । कर्णदुःशासनाभ्यां च राजभिश्चापि संवृतम्
नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान्। पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि
अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् । यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः
त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् । पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि
यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः । तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा
देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः। न सोढुं समरे शक्यस्तं न बुध्यसि केशवम्
दुर्ग्राह्यः पाणिना वायुर्दुस्पर्शः पाणिना शशी । दुर्धरा पृथिवी मूर्ध्ना दुर्ग्राह्यः केशवो बलात्
इत्युक्ते धृतराष्ट्रेण क्षत्ताऽपि विदुरोऽब्रवीत्। दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम्
दुर्योधन निबोधेदं वचनं मम सांप्रतम्। सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः। शिलावर्षेण महता छादयामास केशवम्
ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् । ग्रहीतुं नाशकच्चैनं तं त्वं प्रार्थयसे बलात्
प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः । ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात्
अनेकयुगवर्षायुर्निहत्य नरकं मृधे । नीत्वा कन्यासहस्राणि उपयेमे यथाविधि
निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः । ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात्
अनेन हि हता बाल्ये पूतना शिशुना तदा। गोवर्धनो धारितश्च गवार्थे भरतर्षभ
अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः। अश्वराजश्च निहतः कंसश्चारिष्टमाचरन्
जरासन्धश्च वक्रश्च शिशुपालश्च वीर्यवान् । बाणाश्च निहतः सङ्ख्ये राजानश्च निषूदिताः
वरुणो निर्जितो राजा पावकश्चामितौजसा । पारिजातं च हरता जितः साक्षाच्छचीपतिः
एकार्णवे च स्वपता निहतौ मधुकैटभौ । जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः
अयं कर्ता न क्रियते कारणं चापि पौरुषे । यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः
तं न बुध्यसि गोविन्द घोरविक्रममच्युतम्। आशीविषमिव क्रूद्धं तेजोराशिमनिन्दितम्
प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम्। पतङ्गोऽग्निमिवासाद्य सामात्यो नभविष्यसि
विदुरेणैवमुक्तस्तु केशवः शत्रुपूगहा । दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान्
एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन। परिभूय सुदुर्बुद्धे ग्रहीतुं मां चिकीर्षसि
इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः । इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः
एवमुक्त्वा जाहासोच्चैः केशवः परवीरहा । तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः । `युगपच्च विनिष्पेतुः साक्षात्सर्वास्तु देवताः
अङ्गुष्ठमात्रास्त्रिदशा बभूवुः पावकार्चिषः । तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत्
लोकपाला भुजेष्वासन्नग्निरास्यादजायत। आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च। बभूवुश्चैव यक्षाश्च गन्धर्वोरगराक्षसाः
प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जयौ। दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः। अन्धका वृष्णयश्चैव प्रद्युम्नपरमुखास्ततः