यथा वाराणसी दग्धा साश्वा सरथकुञ्जरा । सानुबन्धस्तु कृष्णेन काशीनामृषभो हतः
तथा नागपुरं दग्ध्वा शङ्खचक्रगदाधरः । स्वयं कालेश्वरो भूत्वा नाशयिष्यति कौरवान्
पारिजातहरं ह्येनमेकं यदुसुखावहम्। नाभ्यवर्तत संरब्धो वृत्रहा वसुभिः सह
प्राप्य निर्मोचने पाशान्षट्सहस्रांस्तरस्विनः । हृतास्ते वासुदेवेन ह्युपसङ्क्रम्य कौरवान्
द्वारमासाद्य सौभस्य विधूय गदया गिरिम्। द्युमत्सेनः सहामात्यः कृष्णेन विनिपातितः
शेषवत्त्वात्कुरूणां तु धर्मापेक्षी तथाऽच्युतः । क्षमते पुण्डरीकाक्षः शक्तः सन्पापकर्मणाम्
एते हि यदि गोविन्दमिच्छन्ति सह राजभिः । अद्यैवातिथयः सर्वे भविष्यन्ति यमस्य ते
यथा वायोस्तृणाग्रणि वशं यान्ति बलीयसः। तथा चक्रभृतः सर्वे वशमेष्यन्ति कौरवाः
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् । धृतराष्ट्रमभिप्रेक्ष्य सुहृदां श्रृण्वतां मिथः
राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा । एते वा मामहं वैनाननुजानीहि पार्थिव
एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे । न त्वहं निन्दितं कर्म कुर्यां पापं कथंचन
पाण्डवार्थे हि लुभ्यन्तः स्वार्थान्हास्यन्ति ते सुताः । एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः
अद्यैव ह्यहमेनांश्च ये चैनाननु भारत । निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत्
एष मे निश्चयो राजन्यद्येषोऽस्य विनिश्चयः । नर्दन्तु सहिताः शङ्खाः पणवानकनिस्वनैः
अनायासेन पार्थानां पर्वतां च शिवं महत्। निगृह्य राजन्पार्थेभ्यो दद्यां चेत्सुकृतं भवेत्
इदं तु न प्रवर्तेयं निन्दितं कर्म भारत । सन्निधौ ते महाराज क्रोधजं पापबुद्धिजम्
एष दुर्योधनो राजन्यथेच्छति तथाऽस्तु तत्। अहं तु सर्वांस्तनयाननुजानामि ते नृप
एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत । क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम्
सहमित्रं सहामात्यं ससोदर्यं सहानुगम्। शक्नुयां यदि पन्थानमवतारयितुं पुनः
ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्मभाम् । अकामं भ्रातृभिः सार्धं राजभिः परिवारितम्
अथ दुरोयधनं राजा धृतराष्ट्रोऽभ्यभाषत । कर्णदुःशासनाभ्यां च राजभिश्चापि संवृतम्
नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान्। पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि
अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् । यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः
त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् । पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि
यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः । तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा
देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः। न सोढुं समरे शक्यस्तं न बुध्यसि केशवम्
दुर्ग्राह्यः पाणिना वायुर्दुस्पर्शः पाणिना शशी । दुर्धरा पृथिवी मूर्ध्ना दुर्ग्राह्यः केशवो बलात्
इत्युक्ते धृतराष्ट्रेण क्षत्ताऽपि विदुरोऽब्रवीत्। दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम्
दुर्योधन निबोधेदं वचनं मम सांप्रतम्। सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः। शिलावर्षेण महता छादयामास केशवम्
ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् । ग्रहीतुं नाशकच्चैनं तं त्वं प्रार्थयसे बलात्