दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च। दुःशासनचतुर्थानामिदमासीद्विचेष्टितम्
पुराऽयमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः । सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च
वयमेव हृषीकेशं निगृह्णीम बलादिव। प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा
श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः । निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः
अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च । अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम्। निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह
तस्माद्वयमिहैवैकं केशवं क्षिप्रकारिणम् । क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून्
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम्। इङ्गितज्ञः कविः क्षिप्रमन्वबुद्ध्यत सात्यकिः
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः । अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम्
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः । यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकारिणे
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव । आचष्ट तमभिप्रायं केशवाय महात्मने
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत । तेषामेतमभिप्रायमाचचक्षे स्मयन्निव
धर्मादर्थाच्च कामाच्च कर्म साधुविगर्हितम् । मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथंचन
पुरा विकुर्वते मूढाः पापात्मानः समागताः । धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः। पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः
सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् । धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि
राजन्परीतकालास्ते पुत्राः सर्वे परन्तप । असक्यमयशस्यं च कर्तुं कर्म समुद्यताः
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च । निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम्
इमं पुरुषशार्दूलमप्रधृष्यं दुरसदम् । आसाद्य नभविष्यन्ति पतङ्गा इव पावकम्
अयमिच्छन्हि तान्सर्वान्युध्यमानाञ्जनार्दनः । सिंहो नागानिव क्रुद्धो गमयेद्यमसादनम्
न त्वयं निन्दितं कर्म कुर्यात्पापं कथंचन । न च धर्मादपक्रामदेच्युतः पुरुषोत्तमः
यथा वाराणसी दग्धा साश्वा सरथकुञ्जरा । सानुबन्धस्तु कृष्णेन काशीनामृषभो हतः
तथा नागपुरं दग्ध्वा शङ्खचक्रगदाधरः । स्वयं कालेश्वरो भूत्वा नाशयिष्यति कौरवान्
पारिजातहरं ह्येनमेकं यदुसुखावहम्। नाभ्यवर्तत संरब्धो वृत्रहा वसुभिः सह
प्राप्य निर्मोचने पाशान्षट्सहस्रांस्तरस्विनः । हृतास्ते वासुदेवेन ह्युपसङ्क्रम्य कौरवान्
द्वारमासाद्य सौभस्य विधूय गदया गिरिम्। द्युमत्सेनः सहामात्यः कृष्णेन विनिपातितः
शेषवत्त्वात्कुरूणां तु धर्मापेक्षी तथाऽच्युतः । क्षमते पुण्डरीकाक्षः शक्तः सन्पापकर्मणाम्
एते हि यदि गोविन्दमिच्छन्ति सह राजभिः । अद्यैवातिथयः सर्वे भविष्यन्ति यमस्य ते
यथा वायोस्तृणाग्रणि वशं यान्ति बलीयसः। तथा चक्रभृतः सर्वे वशमेष्यन्ति कौरवाः
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् । धृतराष्ट्रमभिप्रेक्ष्य सुहृदां श्रृण्वतां मिथः
राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा । एते वा मामहं वैनाननुजानीहि पार्थिव