यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः। योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते
समं हि राज्यं प्रीतिश्च स्थानं हि विदितात्मनाम् । पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः
राजपिण्डभयादेते यदि हास्यन्ति जीवितम् । न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम्
न लोभादर्थसंपत्तिर्नराणामिह दृश्यते । तदलं तात लोभेन प्रशाम्य भरतर्षभ
तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् । पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम्
ततः सभाया निर्गम्य मन्त्रयामास कौरवः। सौबलेन मताक्षेण राज्ञा शकुनिना सह
दुर्योधनं धार्तराष्ट्रं कर्णं दुःशासनोऽब्रवीति । नोचेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः । बद्ध्वैव त्वां प्रदास्यन्ति पाण्डुपुत्राय भारत
वैकर्तनं त्वां च मां च त्रीनेतान्भरतर्षभ । पाण्डवेभ्यः प्रदास्यन्ति भीष्मद्रोणौ पिता च ते
दुःशासनस्य तद्वाक्यं निशम्य भरतर्षभ । दुर्योधनो धार्तराष्ट्रो निश्वस्य प्रहसन्निव
एकान्तमुपसृत्येह मन्त्रं पुनरमन्त्रयत् । सौबलेन मताक्षेण राज्ञा शकुनिना सह
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च। दुःशासनचतुर्थानामिदमासीद्विचेष्टितम्
पुराऽयमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः । सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च
वयमेव हृषीकेशं निगृह्णीम बलादिव। प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा
श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः । निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः
अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च । अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम्। निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह
तस्माद्वयमिहैवैकं केशवं क्षिप्रकारिणम् । क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून्
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम्। इङ्गितज्ञः कविः क्षिप्रमन्वबुद्ध्यत सात्यकिः
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः । अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम्
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः । यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकारिणे
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव । आचष्ट तमभिप्रायं केशवाय महात्मने
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत । तेषामेतमभिप्रायमाचचक्षे स्मयन्निव
धर्मादर्थाच्च कामाच्च कर्म साधुविगर्हितम् । मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथंचन
पुरा विकुर्वते मूढाः पापात्मानः समागताः । धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः। पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः
सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् । धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि
राजन्परीतकालास्ते पुत्राः सर्वे परन्तप । असक्यमयशस्यं च कर्तुं कर्म समुद्यताः
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च । निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम्
इमं पुरुषशार्दूलमप्रधृष्यं दुरसदम् । आसाद्य नभविष्यन्ति पतङ्गा इव पावकम्
अयमिच्छन्हि तान्सर्वान्युध्यमानाञ्जनार्दनः । सिंहो नागानिव क्रुद्धो गमयेद्यमसादनम्
न त्वयं निन्दितं कर्म कुर्यात्पापं कथंचन । न च धर्मादपक्रामदेच्युतः पुरुषोत्तमः