भीष्मस्य तु पितुश्चैव मम चापचितिः कृता । भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया
न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते । अवाप्तुं रक्षितुं वाऽपि भोक्तुं भरतसत्तम
न ह्यवश्येन्द्रियो राज्यमश्रीयाद्दीर्घमन्तरम्। विजितात्मा तु मेधावी स राज्यमभिपालयेत्
कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः । तौ तु शत्रू विनिर्जित्य राजा विजयते महीम्
लोकेश्वर प्रभुत्वंहि महदेतद्दुरात्मभिः । राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम्
इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः । इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः
अविधेयानि हीमानि व्यापादयितुमप्यलम् । अविधेया इवादान्ता हयाः पथि कुसारथिम्
अविजित्य य आत्मानममात्यान्विजिगीषते। अमित्रान्वाऽजितामात्यः सोऽवशः परिहीयते
आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् । ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु । परीक्ष्यकारिणं धीरमत्यर्थं श्रीर्निषेवते
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ । कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः
याभ्यां हि देवाः स्वर्यातुः स्वर्गस्य पिदधुर्मुखम् । बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ
कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः । सम्यग्विजेतुं यो वेद स महीमभिजायते
सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः । ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम्
कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते। स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत
एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः । पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी
यथा भीष्मः शान्तनवो द्रोणश्चापि महारथः। आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ
प्रपद्यष्व महाबाहुं कृष्णमक्लिष्टकारिणम्। प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः
सुहृदामर्थकामानां यो न तिष्ठति शासने। प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः
न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम्। न चापि विजयो नित्यं मा युद्धे चेत आधिथाः
भीष्मेण हि महाप्राज्ञ पित्र ते बाह्लिकेन च। दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भतैररिन्दम
तस्थ चैतत्प्रदानस्य फलमद्यानुपश्यसि । यद्भुङ्क्षे पृथिवीं कृत्स्नां शूरैर्निहतकण्टकाम्
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम । यदीच्छसि सहामात्यो भोक्तुमर्धं प्रदीयताम्
अलमर्धं पृथिव्यास्ते महामात्यस्य जीवितुम् । सुहृदां वचने तिष्ठन्यशः प्राप्स्यति भारत
श्रीमद्भिरात्मवद्भिस्तैर्बुद्धिमद्भिर्जितेन्द्रियैः । पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात्
निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम्। स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ
अलमङ्ग निकारोऽयं त्रयोदशसमाः कृतः । शमयैनं महाप्राज्ञ कामक्रोधसमेधितम्
न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति । सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते
भीष्मे द्रोणे कृपे कर्णे भीमसेने धनञ्जये। धृष्टद्युम्ने च संक्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम्
अमर्षवशमापन्नो मा कुरूंस्तात जीघनः । एषा हि पृथिवी कृत्स्ना मा गमत्त्वत्कृते वधम्