अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः । व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च
द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत । अब्रवीत्तु तदा देवो भगवाँल्लोकभावनः
पराभविष्यन्त्यसुरा दैतेया दानवैः सह । आदित्या वसवो रुद्रा भविष्यन्ति दिवौसकः
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः । अस्मिन्युद्धे सुसंक्रुद्धा हनिष्यन्ति परस्परम्
वर्तमानं जगत्सर्वं मुहूर्तान्न भविष्यति।' इति मत्वाऽब्रवीद्धर्मं परमेष्ठी प्रजापतिः । वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान्
एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः। वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान्
तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः । वरुणः सागरे यत्तो नित्यं रक्षति दानवान्
तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् । बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः । त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ
कृष्णस्य तु वचः श्रुत्वा धृतराष्ट्रो जनेश्वरः। विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत
गच्छ तात महाप्राज्ञ गान्धारीं दीर्घदर्शिनीम् । आनयेह तया सार्धमनुनेष्यामि दुर्मतिम्
यदि सा न दुरात्मानं शमयेद्दुष्टचेतसम्। अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम्
दुर्बुद्धेर्दुःसहायस्य शमार्थं ब्रुवती वचः ।। अपि नो व्यसनं घोरं दुर्योधनकृतं महत्
शमयेच्चिररात्राय योगक्षेमवदव्ययम् । राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम्
आनयामास गान्धारीं धृतराष्ट्रस्य शासनात्
एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः । ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति
अशिष्टवदमर्यादः पापैः सह दुरात्मवान्। सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः
सा भर्तृवचनं श्रुत्वा राजपुत्री यशस्विनी । अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत्
आनायय सुतं क्षिप्रं राज्यकामुकमातुरम् । नहि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना । आप्तुमाप्तं तथाऽपीदमविनीतेन सर्वथा
त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः । यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे
स एष काममन्युभ्यां प्रलब्धो लोभमास्थितः । अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात्
राष्ट्रप्रदाने मूढस्य बालिशस्य दुरात्मनः । दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्रुते फलम्
कथं हि स्वजने भेदमुपेक्षेत महीपतिः। भिन्नं हि स्वजनेन त्वां प्रहरिष्यन्ति शत्रवः
या हि शक्या महाराज साम्ना भेदेन वा पुनः । निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत्
शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम्। मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः
स मातुर्वचनाकाङ्क्षी प्रविवेश पुनः सभाम् । अभिताम्रेक्षणः क्रोधान्निश्वसन्निव पन्नगः
तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् । विगर्हमाणा गान्धारी शमार्थं वाक्यमब्रवीत्
दुर्योधन निबोधेदं वचनं मम पुत्रक । हितं ते सानुबन्धस्य तथाऽऽयत्यांसुखोदयम्
दुर्योधन यदाह त्वां पिता भरतसत्तम । भीष्मो द्रोणः कृपः क्षत्ता सुहृदां कुरु तद्वचः