न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः। अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया
एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् । दुःशासन इदं वाक्यमब्रवीत्करुसंसदि
न चेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः। बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः
वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ । पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते
भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः । क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन्
विदुरं च सोमदत्तं च महाराजं च बाह्लिकम्। कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम्
सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः। अशिष्टवदमर्यादो मानी मान्यावमानिता
तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम्। अनुजग्मुः सहामात्या राजानश्चापि सर्वशः
सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह। दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत्
धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते । हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव
दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित्। मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः
कालपक्वमिदं मन्ये सर्वं क्षत्रं जनार्दन । सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः
भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः । भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान्
सर्वेषां कुरुवृद्धानां महानयमतिक्रमः । प्रसह्य मन्दमैश्वर्ये न नियच्छन्ति यन्नृपम्
तत्र कार्यमहं मन्ये कालप्राप्तमरिन्दमाः । क्रियमाणे भवेच्छ्रेयस्तत्सर्वं श्रृणुतानघाः
प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः । भवतामानुकूल्येन यदि रोचेत भारताः
पुत्रो वै भोजराजस्य दुराचारो ह्यनात्मवान् । जीवतः पितुरैश्वर्यं हृत्वा मृत्युवशं गतः
उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः। ज्ञातीनां हितकामेन मया शस्तो महामृधे
आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः । उग्रसेनः कृतो राजा भोजराजन्यवर्धनः
संसमेकं परित्यज्य कुलार्थे सर्वयादवाः। संभूय सुखमेधन्ते भारतान्धकवृष्णयः
अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः । व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च
द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत । अब्रवीत्तु तदा देवो भगवाँल्लोकभावनः
पराभविष्यन्त्यसुरा दैतेया दानवैः सह । आदित्या वसवो रुद्रा भविष्यन्ति दिवौसकः
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः । अस्मिन्युद्धे सुसंक्रुद्धा हनिष्यन्ति परस्परम्
वर्तमानं जगत्सर्वं मुहूर्तान्न भविष्यति।' इति मत्वाऽब्रवीद्धर्मं परमेष्ठी प्रजापतिः । वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान्
एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः। वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान्
तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः । वरुणः सागरे यत्तो नित्यं रक्षति दानवान्
तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् । बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः । त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ