लप्स्यसे वीरशयनं काममेतदवाप्स्यसि। स्थिरो भव सहामात्यो विमर्दो भविता महान्
यच्चैतन्मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः। पाण्डवेष्विति तत्सर्वं निबोध त्वं नराधिप
श्रियां संतप्यमानेन पाण्डवानां महात्मनाम् । त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत
कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः । तथाऽन्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः
अक्षद्यूतं महाप्रज्ञ सतां मतिविनाशनम् । असतां तत्र जायन्ते भेदाश्च व्यसनानि च
तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् । असमीक्ष्य सदाचारान्सार्धं पापानुबन्धनैः
कश्चान्यो भ्रातृभार्यां वै विप्रकर्तृं तथार्हति। आनीय च सभां व्यक्तं यथोक्ता द्रौपदी त्वया
कुलीना शीलसंपन्ना प्राणेभ्योऽपि गरीयसी । महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया
जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि । दुःशासनेन कौन्तेयाः प्रव्रजन्तः परन्तपाः
सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु । स्वेषु बन्धुषु कः साधुश्चरेदेवमसांप्रतम्
नृशंसानामनार्याणां तथा परुषभाषणम् । कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम्
सह मात्रा प्रदग्धुं तान्बालकान्वारणावते । आस्थितः परमो यत्नो न समृद्धश्च तत्तव
ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा। मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने
विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया । सर्वोपायैर्विनाशाय न समृद्धं च तत्तव
एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् । कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु
एवंवृत्तः कथं राज्ये स्थातुमर्हसि पापकृत्। स राज्याच्च सुखाच्चैव हास्यसे कुलपांसन
यच्चैभ्यो याचमानेभ्यः पित्र्यमंशं न दित्सति । तच्च पाप प्रदाताऽसि भ्रष्टैश्वर्यो निपातितः
कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत्। मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे
मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च। शाम्येति मुहुरुक्तोसि न च शाम्यसि पार्थिव
शमे हि सुमहाँल्लाभस्तव पार्थस्य चोभयोः । न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात्
न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः। अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया
एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् । दुःशासन इदं वाक्यमब्रवीत्करुसंसदि
न चेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः। बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः
वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ । पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते
भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः । क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन्
विदुरं च सोमदत्तं च महाराजं च बाह्लिकम्। कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम्
सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः। अशिष्टवदमर्यादो मानी मान्यावमानिता
तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम्। अनुजग्मुः सहामात्या राजानश्चापि सर्वशः
सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह। दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत्
धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते । हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव