ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे। अप्रणम्यैव शत्रूणां न नस्तप्स्यन्ति माधव
कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् । भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कर्हिचित्
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् । अप्यपर्वणि भज्येत न नमेदिह कर्हिचित्
इति मातङ्गवचनं परिप्सन्ति हितेप्सवः । धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः
अचिन्तयन्कंचिदन्यं यावज्जीवं तथा चरेत्। एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा
राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराऽभवत्। न स लभ्यः पुनर्जातु मयि जीवति केशव
यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन । न्यस्तशस्त्रा वयं ते वाऽप्युपजीवाम माधव । अप्रदेयं पुरा दत्तं राज्यं परवतो मम
अज्ञानाद्वा भयाद्वाऽपि मयि बाले जनार्दन । न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन
ध्रियमाणे महाबाहौ मयि संप्रति केशव । यावद्धि तीक्ष्णया सूच्या विद्ध्येदग्रेण केशव । तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति
ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः । दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि
लप्स्यसे वीरशयनं काममेतदवाप्स्यसि। स्थिरो भव सहामात्यो विमर्दो भविता महान्
यच्चैतन्मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः। पाण्डवेष्विति तत्सर्वं निबोध त्वं नराधिप
श्रियां संतप्यमानेन पाण्डवानां महात्मनाम् । त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत
कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः । तथाऽन्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः
अक्षद्यूतं महाप्रज्ञ सतां मतिविनाशनम् । असतां तत्र जायन्ते भेदाश्च व्यसनानि च
तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् । असमीक्ष्य सदाचारान्सार्धं पापानुबन्धनैः
कश्चान्यो भ्रातृभार्यां वै विप्रकर्तृं तथार्हति। आनीय च सभां व्यक्तं यथोक्ता द्रौपदी त्वया
कुलीना शीलसंपन्ना प्राणेभ्योऽपि गरीयसी । महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया
जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि । दुःशासनेन कौन्तेयाः प्रव्रजन्तः परन्तपाः
सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु । स्वेषु बन्धुषु कः साधुश्चरेदेवमसांप्रतम्
नृशंसानामनार्याणां तथा परुषभाषणम् । कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम्
सह मात्रा प्रदग्धुं तान्बालकान्वारणावते । आस्थितः परमो यत्नो न समृद्धश्च तत्तव
ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा। मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने
विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया । सर्वोपायैर्विनाशाय न समृद्धं च तत्तव
एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् । कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु
एवंवृत्तः कथं राज्ये स्थातुमर्हसि पापकृत्। स राज्याच्च सुखाच्चैव हास्यसे कुलपांसन
यच्चैभ्यो याचमानेभ्यः पित्र्यमंशं न दित्सति । तच्च पाप प्रदाताऽसि भ्रष्टैश्वर्यो निपातितः
कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत्। मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे
मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च। शाम्येति मुहुरुक्तोसि न च शाम्यसि पार्थिव
शमे हि सुमहाँल्लाभस्तव पार्थस्य चोभयोः । न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात्