यावन्न चरते मार्गान्पृतनामभिधर्षयन् । भीमसेनो गदापाणिस्तावत्संशाम्य पाण्डवैः
यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् । गदया वीरघातिन्या फलानीव वनस्पतेः । कालेन परिपक्वानि तावच्छाम्यतु वैशसम्
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।। विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः
यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् । कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम्
यावन्न सुकुमारेषु शरीरेषु महीक्षिताम्। गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम्
चन्दनागुरुदिग्धेषु हारनिष्कधरेषु च । नोरस्सु यावद्योधानां महेष्वासैर्महेषवः
कृतस्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः । अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम्
अभिवादयमानं त्वां शिरसा राजकुञ्जरः । पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः
ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः । स्कन्धे निक्षिपतां बहुं शान्तये भरतर्षभ
रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च। उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु
शालस्कन्धो महाबहुस्त्वां स्वजानो वृकोदरः । साम्नाऽभिवदतां चापि शान्तये भरतर्षभ
अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः। मूर्ध्नि तान्समुपाघ्राय प्रेम्णाऽभिवद पार्थिव
दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह संगतम् । यावदानन्दजाश्रूणि प्रन्मुञ्चन्तु नराधिपाः
घुष्यतां राजधानीषु सर्वसंपन्महीक्षिताम् । पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव
श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि। प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम्
प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव। मामेव हि विशेषेण विभाष्य परिगर्हसे
भक्तिवादेन पार्थानामकस्मान्मधुसूदन। भवान्गर्हयति नित्यं किं समीक्ष्य बलाबलम्
भवान्क्षत्ता च राजा वाऽप्याचार्यो वा पितामहः । मामेव परिगर्हन्ते नान्यं कंचन पाण्डवम्
न चाहं लक्षये कंचिद्व्यभिचारमिहात्मनः । अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः
न चाहं कंचिदत्यर्थमपराधमरिन्दम । विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव
प्रियाभ्युपगते द्यूते पाण्डवा मधूसूदन। जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम्
यत्पुनर्द्रविणं किंचित्तत्राजीयन्त पाण्डवाः । तेभ्य एवाभ्यनुज्ञातं तत्तद मधुसूदन
अपराधो न चास्माकं यत्ते ह्यक्षैः पराजिताः। अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम्
केन वाऽप्यपवादेन विरुद्ध्यन्त्यरिभिः सह। अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत्
किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि। धार्तराष्ट्राञ्जिघांसन्ति पाण्डवाः सृञ्जयैः सह
न चापि वयमुग्रेण कर्मणा वचनेन वा। प्रभ्रष्टाः प्रणमामेह भयादपि शतक्रतुम्
न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् । उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण
न हि भीष्मकृपद्रोणाः सकर्णा मधुसूदन। देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः
स्वधर्ममनुपश्यन्तो यदि माधव संयुगे। अस्त्रेण निधनं काले प्राप्स्यामः स्वर्ग्यमेव तत्
मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन । यच्छयीमहि सङ्ग्रामे शरतल्पगता वयम्