कृष्णेन वाक्यमुक्तोऽसि सृहृदां शममिच्छता । अन्वपद्यस्व तत्तात मा मन्युवशमन्वगाः
अकृत्वा वचनं तात केशवस्य महात्मनः । श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि
धर्म्यमर्थ्यं महाबाहुराह त्वां तात केशवः । तदर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः
ज्वलितां त्वमिमां लक्ष्मीं भारतीं सर्वराजसु । जीवतो धृतराष्ट्रस्य दौरात्म्याद्भंशयिष्यसि
आत्मानं च सहामात्यं सपुत्रभ्रातृबान्धवम् । अहमित्यनया बुद्ध्या जीविताद्धंशयिष्यतसि
अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत्। पितुश्च भारतश्रेष्ठ विदुरस्य च धीमतः
मा कुलघ्नः कुपुरुषो दुर्मतिः कापथं गमः। मातरं पितरं चैव मा मञ्जीः शोकसागरे
अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः। अमर्षवशमापन्नं निःश्वसन्तं पुनःपुनः
धर्मार्थयुक्तं वचनमाह त्वां तात केशवः । तथा भीष्मः शान्तनवस्तञ्जुषस्व नराधिप
प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ । आहतुस्त्वां हितं वाक्यं तञ्जुषस्व नराधिप
अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः । माधवं बुद्धिमोहेन माऽवमंस्थाः परन्तप
ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित् । वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे
मा जीघनः प्रजाः सर्वाः पुत्रान्भ्रातॄंस्तथैव च । वासुदेवार्जुनौ यत्र विद्ध्यजेयानलं हि तान्
एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः। यदि नादास्यसे तात पश्चात्तप्स्यसि भारत
यथोक्तं जामदग्न्येन भूयानेष ततोऽर्जुनः। कृष्णो हि देवकीपुत्रो देवैरपि सुदुःसहः । किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ
एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु। न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम
तस्मिन्वाक्यान्तरे वाक्यं क्षत्ताऽपि विदुरोऽब्रवीत्। दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम्
दुर्योधन न शोचामि त्वामहं भरतर्षभ । इमो तु वृद्धौ शोचामि गान्धारीं पितरं च ते
यावनाथौ चरिष्येते त्वया नाथेन दुर्हृदा। हतमित्रौ हतामात्यौ लूनपक्षाविवाण्डजौ
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्। कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम्
अथ दुर्योधं राजा धृतराष्ट्रोऽभ्यभाषत। आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम्
दुर्योधन निबोधेदं शौरिणोक्तं महात्मना । आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम्
अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा । इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु
सुसंहतः केशवेन तात गच्छ युधिष्ठिरम् । चर स्वस्त्ययनं कृत्स्नं भरतानामनामयम्
वासुदेवेन तीर्थेन तात गच्छस्व संशमम् । कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः
शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् । त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः
धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समव्यथौ। दुर्योधनमिदं वाक्यमूचतुः शासनातिगम्
यावत्कृष्णावसन्नद्धौ यावत्तिष्ठति गाण्डिवम् । यावद्धौम्यो न मेधाग्नौ जुहोतीह द्विषद्बलम्
यावन्न प्रेक्षते क्रूद्धः सेनां तव युधिष्ठिरः। ह्रीनिषेवो महेष्वासस्तावच्छाम्यतु वैशसम्
यावन्न दृश्यते पार्थः स्वेऽप्यनीके व्यवस्थितः। भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम्