पौरवाणां वंशकरो दुष्यन्तो नाम वीर्यवान्। पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम
चतुर्भागं भुवः कृत्स्नं यो भुङ्क्ते मनुजेश्वरः। समुद्रावरणांश्चापि देशान्स समितिंजयः
आम्लेच्छावधिकान्सर्वान्स भुङ्क्ते रिपुमर्दनः। रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान्
न वर्णसङ्करकरो न कृष्याकरकृज्जनः। न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति
धर्मे रतिं सेवमाना धर्मार्थावभिपेदिरे। तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे
नासीच्चोरभयं तात न क्षुधाभयमण्वपि। नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे
स्वधर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः। तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः
कालवर्षी च पर्जन्यः सस्यानि रसवन्ति च। सर्वरत्नसमृद्धा च मही पशुमती तथा
स्वकर्मनिरता विप्रा नानृतं तेषु विद्यते। स चाद्भुतमहावीर्यो वज्रसंहननो युवा
उद्यम्य मन्दरं दोर्भ्यां वहेत्सवनकाननम्। चतुष्पथगदायुद्धे सर्वप्रहरणेषु च
नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठतः। बले विष्णुसमश्चासीत्तेजसा भास्करोपमः
अक्षोभ्यत्वेऽर्णवसमः सहिष्णुत्वे धरासमः। संमतः स महीपालः प्रसन्नपुरराष्ट्रवान्
भूयो धर्मपरैर्भावैर्मुदितं जनमादिशत्
संभवं भरतस्याहं चरितं च महामतेः। शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः
दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला। तं वै पुरुषसिंहस्य भगवन्विस्तरं त्वहम्
श्रोतुमिच्छामि तत्त्वज्ञ सर्वं मतिमतां वर
वनं जगाम गहनं हयनागशतैर्वृतः। बलेन चतुरङ्गेण वृतः परमवल्गुना
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः। प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः
सिंहनादैश्च योधानां शङ्खदुनदुभिनिःस्वनैः। रथनेमिस्वनैश्चैव सनागवरबृंहितैः
नानायुधधरैश्चापि नानावेषधरैस्तथा। ह्रेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः
आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे। प्रासादवरशृङ्गस्थाः परया नृपशोभया
ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम्। शक्रोपमममित्रघ्नं परवारणवारणम्
पश्यन्तः स्त्रीगणास्तत्र वज्रपाणिं स्म मेनिरे। अयं स पुरुषव्याघ्रो रणे वसुपराक्रमः
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः। इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपं
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि। तत्रतत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः
निर्ययौ परमप्रीत्या वनं मृगजिघांसया। तं देवराजप्रतिमं मत्तवारणधूर्गतम्
द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे। ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च
सुदूरमनुजग्मुस्तं पौरजानपदास्तथा। न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः। महीमापूरयामास घोषेण त्रिदिवं तथा
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम्। बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम्