त्रिवर्गयुक्तः प्राज्ञानामारम्भो भरतर्षभ । धर्मार्थावनुरुद्ध्यन्ते त्रिवर्गासंभवे नराः
पृथक्व विनिविष्टानां धर्मं धीरोऽनुरुध्यते। मध्यमोऽर्थं कलिं बालः काममेवानुरुद्ध्यते
इन्द्रियैः प्राकृतो लोभाद्धर्मं विप्रजहाति यः । कामार्थावनुपायेन लिप्समानो विनश्यति
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत्। न हि धर्मादपैत्यर्थः कामो वाऽपि कदाचन
उपायं धर्ममेवाहुस्त्रिवर्गस्य विशांपते । लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते
स त्वं तातानुपायेन लिप्ससे भरतर्षभ । आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु
आत्मानं तक्षति ह्येष वनं परशुना यथा। यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते । न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम्
अविच्छिन्नमतेरस्य कल्याणे धीयते मतिः। आत्मवान्नावमन्येत त्रिषु लोकेषु भारत
अप्यन्यं प्राकृतं कञ्चित्किमु तान्पाण्डवर्षभान्। अमर्षवशमापन्नो न किंचिद्बुद्व्यते जनः
छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत । श्रेयस्ते दुर्जनात्तात पाण्डवैः सह सङ्गतम्
तैर्हि संप्रीपमाणस्त्वं सर्वान्कामानवाप्स्यसि। पाण्डवैर्निर्मितां भूमिं भुञ्जानो राजसत्तम
पाण्डवान्पृष्ठतः कृत्वा त्राणमाशससऽन्वतः । दुःशासने दुर्विषहे कर्णे चापि ससौबले
एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत । न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा
विक्रमे चाप्यपर्याप्तः पाण्डवान्प्रति भारत। न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया
क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे। इदं सनिहितं तात समग्रं पार्थिवं बलम्
अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः । भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः
अशक्ताः सर्व एवैते प्रतियोद्धुं धनञ्जयम् । अजेयो ह्यर्जुनः सङ्ख्ये सर्वैरपि सुरासुरैः । मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः
दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले। योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान्
किं ते जनक्षयेणेह कृतेन भरतर्षभ । यस्मिञ्चिते जितं ते स्यात्पुमानेकः स दृश्यतां
यः सदेवान्सगन्धर्वान्सयक्षासुरपन्नगान् । अजयत्खाण्डवप्रस्थे कस्तं युद्धेय मानवः
तथा विराटनगरे श्रूयते महदद्भुतम्। एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्
युद्धे येन महादेवः साक्षात्सन्तोषितः शिवः । तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् । आशंससीह समरे वीरमर्जुनमूर्जितम्
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति । युद्धे प्रतीपमायान्तमपि साक्षात्पुरन्दरः
बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः । पातयेत्रिदिवाद्देवान्योऽर्जुनं समरे जयेत्
पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्संबन्धिनस्तथा। त्वत्कृते न विनश्येयुरिमे भरतसत्तमाः
अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् । कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप
त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः । महाराज्येऽपि पितरं धृतराष्ट्रं जनेश्वरम्
मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् । अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्नुहि
पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः । संप्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि
ततः शान्तनवो भीष्मो दुर्योधनममर्षणम् । केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ