तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि। भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप
अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे
प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः। सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ। तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः
पितामहस्य द्रोणस्य विदुरस्य महामतेः । कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः
अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विविंशतेः। ज्ञातीनां चैव भूयिष्ठं मित्राणां च परन्तप
शमे शर्म भवेत्तात सर्वस्य जगतस्तथा। ह्रीमानसि कुले जातः श्रुतवानानृशंस्यवान् । तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ
एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत । उक्तमापद्गतः पूर्वं पितुः स्मरसि शासनम्
रोचते ते पितुस्तात पाण्डवैः सह सङ्गमः। सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यां तात रोचताम्
श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते । विपाकान्ते दहत्येनं किंपाकमिव भक्षितम्
यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते। स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते
यस्तु न्निःश्रेयसं श्रुत्वा प्राक्तदेवाभिपद्यते। आत्मनो मतमुत्सृज्य स लोके सुखमेधते
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते। शृणोति प्रतिकूलानि द्विषतां वशमेति सः
सतां मतमतिक्रम्य योऽसतां वर्तते मते। शोचन्ते व्यसने तस्य सुहृदो नचिरादिव
मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते । स घोरामापदं प्राप्य नोत्तारमधिगच्छति
योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सताम्। परान्वृणीति स्वान्द्वेष्टि तं गौस्त्यजति भारत
तत्वं विरुद्धा तैर्वीरैस्येतत्राणमिच्छसि । अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ
को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् । अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः
जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया । न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः
मिथ्योपचरितास्तात जन्मप्रभृति बान्धवाः । त्वयि सम्यङ्भहाबाहो प्रतिपन्ना यशस्विनः
त्वयाऽपि प्रतिपत्तव्यं तथैव भरतर्षभ । स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः
त्रिवर्गयुक्तः प्राज्ञानामारम्भो भरतर्षभ । धर्मार्थावनुरुद्ध्यन्ते त्रिवर्गासंभवे नराः
पृथक्व विनिविष्टानां धर्मं धीरोऽनुरुध्यते। मध्यमोऽर्थं कलिं बालः काममेवानुरुद्ध्यते
इन्द्रियैः प्राकृतो लोभाद्धर्मं विप्रजहाति यः । कामार्थावनुपायेन लिप्समानो विनश्यति
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत्। न हि धर्मादपैत्यर्थः कामो वाऽपि कदाचन
उपायं धर्ममेवाहुस्त्रिवर्गस्य विशांपते । लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते
स त्वं तातानुपायेन लिप्ससे भरतर्षभ । आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु
आत्मानं तक्षति ह्येष वनं परशुना यथा। यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते । न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम्
अविच्छिन्नमतेरस्य कल्याणे धीयते मतिः। आत्मवान्नावमन्येत त्रिषु लोकेषु भारत
अप्यन्यं प्राकृतं कञ्चित्किमु तान्पाण्डवर्षभान्। अमर्षवशमापन्नो न किंचिद्बुद्व्यते जनः
छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत । श्रेयस्ते दुर्जनात्तात पाण्डवैः सह सङ्गतम्