अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम। अनुनेतुं महाबाहो यतस्व पुरुषोत्तम
न श्रृणोति महाबाहो वचनं साधु भाषितम् । गान्धार्याश्च हृषीकेश विदुरस्य च धीमतः । अन्येषां चैव सुहृदां भीष्मादीनां हितैषिणाम्
स त्वं पापमतिं क्रूरं पापचित्तमचेतनम् । अनुशाधि दुरात्मानं स्वयं दुर्योधनं नृपम्
सुहृत्कार्यं तु सुमहत्कृतं ते स्याञ्जनार्दन
ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् । अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित्
दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम। शर्मार्थं ते विशेषेण सानुबन्धस्य भारत
महाप्रज्ञकुले जातः साध्वेतत्कर्तुमर्हसि । श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः
दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः । त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे
धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम्। असतां विपरीता तु लक्ष्यते भरतर्षभ । विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि
अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् । अनिष्टश्चानिमित्तश्च न च शक्यश्च भारत
तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि। भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप
अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे
प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः। सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ। तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः
पितामहस्य द्रोणस्य विदुरस्य महामतेः । कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः
अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विविंशतेः। ज्ञातीनां चैव भूयिष्ठं मित्राणां च परन्तप
शमे शर्म भवेत्तात सर्वस्य जगतस्तथा। ह्रीमानसि कुले जातः श्रुतवानानृशंस्यवान् । तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ
एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत । उक्तमापद्गतः पूर्वं पितुः स्मरसि शासनम्
रोचते ते पितुस्तात पाण्डवैः सह सङ्गमः। सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यां तात रोचताम्
श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते । विपाकान्ते दहत्येनं किंपाकमिव भक्षितम्
यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते। स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते
यस्तु न्निःश्रेयसं श्रुत्वा प्राक्तदेवाभिपद्यते। आत्मनो मतमुत्सृज्य स लोके सुखमेधते
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते। शृणोति प्रतिकूलानि द्विषतां वशमेति सः
सतां मतमतिक्रम्य योऽसतां वर्तते मते। शोचन्ते व्यसने तस्य सुहृदो नचिरादिव
मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते । स घोरामापदं प्राप्य नोत्तारमधिगच्छति
योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सताम्। परान्वृणीति स्वान्द्वेष्टि तं गौस्त्यजति भारत
तत्वं विरुद्धा तैर्वीरैस्येतत्राणमिच्छसि । अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ
को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् । अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः
जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया । न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः
मिथ्योपचरितास्तात जन्मप्रभृति बान्धवाः । त्वयि सम्यङ्भहाबाहो प्रतिपन्ना यशस्विनः
त्वयाऽपि प्रतिपत्तव्यं तथैव भरतर्षभ । स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः