दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै । चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः। मातामहं महाप्राज्ञं दिवमारोपयन्त ते
राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः । दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव
सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः । अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः
अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना। परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना
अचलं स्थानमासाद्य दौहित्रफलनिर्जितम् । कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया
उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः । प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिःस्वनैः
अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः । अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः
प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः । निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव
चतुष्पादस्त्वया धर्मश्रितो लोक्येन कर्मणा । अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि
पुनस्त्वयैव राजर्षे स्वकृतेन विघातितम्। आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम्
येन त्वां नाभिजानन्ति ततोऽज्ञातोसि पातितः । प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः
स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् । अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम्
भगवन्संशयो मेऽस्ति कश्चितं छेत्तुमर्हसि । न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्। अनेकक्रतुदानौघैरार्जितं मे महत्फलम्
कथं तदल्पकालेन क्षीणं येनास्मि पातितः । भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्मितान् । कथं नु मम तत्सर्वं विप्रनष्टं महाद्युते
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्। अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम्
तदनेनैव दोषेण क्षीणं येनासि पातितः। अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः
नायं मानेन राजर्षे न बलेन न हिंसया। न शाठ्येन न मायाभिर्लोको भवति शाश्वतः
नावमान्यास्त्वया राजन्नधमोत्कृष्टमध्यमाः। न हि मानप्रदग्धानां कश्चिदस्ति शमः क्वचित्
पतनारोहणमिदं कथयिष्यन्ति ये नराः । विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः
एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना । निर्बध्नताऽतिमात्रं च गालवेन महीपते
श्रोतव्यं हितकामानां सुहृदां हितमिच्छताम्। न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः
तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय । सन्धत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव
स भवान्सुहृदां पथ्यं वचो गृह्णातु माऽनृतम् । समर्थैर्विग्रहं कृत्वा विषमस्थो भविष्यसि
ददाति यत्पार्थिव यत्करति यद्वा तपस्तप्यति यञ्जुहोति। न तस्य नाशोऽस्ति न चापकर्षो नान्यस्तदश्नाति स एव कर्ता
इदं महाख्यानमनुत्तमं हितं बहुश्रुतानां गतरोषरागिणाम्। समीक्ष्य लोके बहुधा प्रधारितं त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते
एतत्पुण्यतमं राजन्ययातेश्चरितं महत्। यच्छ्रुत्वा श्रावयित्वा च स्वर्गं यान्तीह मानवाः
भगवन्नेवमेवैतद्यथा वदसि नारद। इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम्
एवमुक्त्वा ततः कृष्णमभ्यभाषत कौरवः । स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव
न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् । `न मंस्यन्ते दुरात्मानः पुत्रा मम जनार्दन