तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप
अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् । उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् । मातामहं नृपतयस्तारयन्तो दिवश्च्युतम्
राजधर्मगुणोपेताः सत्यधर्मगुणान्विताः। दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव
अथाकस्मादुपगतो गालवोऽप्याह पार्थिवम् । तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान्
प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः। समारुरोह नृपतिरस्पृशन्वसुधातलम् । ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः
दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः। दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा
ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः ।। ख्यातो दानपतिर्लोके व्याजहार नृपं तदा
प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया । तदप्यथ च दास्यामि तेन संयुज्यतां भवान्
यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् । यच्च मे फलमाधाने तेन संयुज्यतां भवान्
ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुङ्गवः । यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः
प्राप्तवानस्मि यल्लोके क्षत्रवंशोद्भवं यशः । वीरशब्दफलं चैव तेन संयुज्यतां भवान् । यथा धर्मे रतिर्नित्यं तेन सत्येन खं व्रज
शिबिरौशीनरो धीमानुवाच मधुरां गिरम्। यथा बालेषु नारीषु वैवाह्येषु तथैव च
सङ्गरेषु निपातेषु तथा तद्व्यसनेषु च । अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज
यथा प्राणांश्च राज्यं च राजन्कामसुखानि च। त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज
यथा सत्येन मे धर्मो यथा सत्येन पावकः । प्रीतः शतक्रतुश्चैव तेन सत्येन खं व्रज
अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः। अनेकशतयज्वानं नाहुषं प्राह धर्मवित्
शतशः पुण्डरीका मे गोसवाश्चरिताः प्रभो । क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि
न मे रत्नानि न धनं न तथाऽन्ये परिच्छदा । क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज
यथायथा हि जल्पन्ति दौहित्रास्तं नराधिपम् । तथतथा वसुमतीं त्यक्त्वा राजा दिवं ययौ
एवं सर्वे समस्तैस्ते राजानः सुकृतैस्तदा । ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा
दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै । चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः। मातामहं महाप्राज्ञं दिवमारोपयन्त ते
राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः । दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव
सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः । अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः
अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना। परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना
अचलं स्थानमासाद्य दौहित्रफलनिर्जितम् । कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया
उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः । प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिःस्वनैः
अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः । अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः
प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः । निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव
चतुष्पादस्त्वया धर्मश्रितो लोक्येन कर्मणा । अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि
पुनस्त्वयैव राजर्षे स्वकृतेन विघातितम्। आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम्