वैदूर्याङ्कुरकल्पानि मृदूनि हरितानि च। चरन्ती श्लक्ष्णशष्पाणि तिक्तानि मधुराणि च
स्रवन्तीनां च पुण्यानां सुरसानि सुचीनि च। पिबन्ती वारिमुख्यानि शीतानि विमलानि च
वनेषु मृगराजेषु व्याघ्रविप्रोषितेषु च । दावाग्निविप्रयुक्तेषु शून्येषु गहनेषु च
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी । चचार विपुलं धर्मं ब्रह्मचर्येण संवृतम्
ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः। बहुवर्षसहस्रायुर्युयुजे कालधर्मणा
पुरुर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ । ताभ्भां प्रतिष्ठितो लोके परलोके च नाहुषः
महीपते नरपतिर्ययातिः स्वर्गमास्थितः। महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः
बहुवर्षसहस्राख्ये काले बहुगुणे गते। राजर्षिषु निषण्णेषु महीयःसु महर्धिषु
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा। ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः
ततस्तं बुबुधे देवः शक्रो बलनिषूदनः । ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन्
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् । कोऽन्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः
कर्मणा केनसिद्धोऽयं क्व वाऽनेन तपश्चितम्। कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत
एवं विचास्यन्तस्ते राजानं स्वर्गवासिनः । दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति
विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः । पृष्टा आसनपालाश्च न जानीमेत्यथाऽब्रुवन्
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् । स मुहूर्तादथ नृपो हतौजाश्चाभवत्तदा
अथ प्रचलितः स्थानादासनाच्च परिच्युतः। कम्पितेनेव मनसा धर्षितः शेकवाह्निना
म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः । विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः
अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः । शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम्
किं मया मनसा ध्यातमशुभं धर्मदूषणम् । येनाहं चलितः स्थानादिति राजा व्यचिन्तयत्
ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा । अपश्यन्त निरालम्बं तं ययातिं परिच्युतम्
अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः । ययातिमब्रवीद्राजन्द्रेवराजस्य शासनात्
अतीव मदमत्तस्त्वं न कंचिन्नावमन्यसे । मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज
न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत् । पतेयं सत्स्विति वचस्त्रिरुत्त्का नहुषात्मजः
पतिष्यंन्तयामास गतिं गतिमतां वरः। एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान्
चतुरोऽपश्यत नृपस्तेषां मध्ये पपात ह । प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः
वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् । तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम्
ययातिरुपजिघ्रन्वै निपपात महीं प्रति । भूमौ स्वर्गे च संबद्धां नदीं धूममयीमिव । गङ्गां गामिव गच्छन्तीमालम्ब्य जगतीपतिः
श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु । मध्ये निपतितो राजा लोकपालोपमेषु सः
चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु । पपात मध्ये राजर्षिर्ययातिः पुण्यसङ्क्षये
तमाहुः पार्थिवाः सर्वे दीप्यमानमिव श्रिया । को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा